________________
गणिपदवी पन्यासपदवी वाचकपदवी आचार्यपदवी च क्रमेण प्रदत्ता, तत्रापि वाचकपदवीप्रदानावसरे व्याकरणवाचस्पति-कविरत्न-शास्त्रविशारद' इति पदवीत्रयमपि प्रसन्नेन गुरुप्रवरेण प्रादायि ।।
अयं चाचार्यविजयलावण्यसूरिः चित्रनिर्माणकलाकुशलोऽधीतविजयनेमिसूरिनिर्मितबृहद्धेमप्रभाव्याकरणः सम्यक्परिभावितहैमशब्दानुशासनो न्यायादिदर्शनान्तर्गतावश्यकमुक्तावल्यादिग्रन्थसार्थाध्ययनोत्पादितसर्वदर्शनप्रवेशशक्तिः साहित्ये गुरुप्रवरविजयनेमिसूरीश्वरशिक्षणप्रभावावलम्बनेन कृतभूरिपरिश्रमो वार्षिकान्तरालिकपठितापठितग्रन्थलेखपरीक्षायामन्येभ्यः परीक्ष्येभ्योऽखिलविषयलब्धाङ्ककीकरणोपजाताधिकाङ्केन परीक्षोत्तीर्णप्राथम्यासादितगुरुहस्तप्रदत्तपुस्तकरत्नोपहारो वाक्यैकवाक्यतानीतास्खलद्गतिसङ्गतिकविशिष्टदृष्टान्तप्राचुर्यभाजनानेकागमविषयसुखावबोध्यार्थनिकरकरम्बिताविच्छिन्नप्रवाहशालिव्याख्यानधुरन्धरो नियमितसमय प्रतिदिनव्याख्यानश्रवणोपजातजिनमतश्रद्धातिशयोपनीतविविधश्रुतविदितजैनधर्मरक्षणोपयुक्तद्रव्यदानार्थाहम्पूर्विकाप्रवृत्तदानशौण्डीर्यश्रेष्ठिगणमुकुटपूजितपादपद्मो विनीताध्ययनैकपरायणानुपमप्रतिभासम्पन्ननित्यविहितकर्मानुष्ठानशीलान्तेवासिमुनिजनापरित्यक्तपार्श्वः सारस्वताम्बुधिनिमग्नहृदयस्सारस्वताम्बुधिकल्लोलतरङ्गायमाणवादिप्रतिवादिसूक्ष्महृदयङ्गमतर्कवितर्काकलितस्वस्वसिद्धान्तानुसारिशास्त्रार्थसमुद्गततत्त्वरत्नप्राप्यानन्दितचित्तोऽस्ति । अस्य साहित्यभावनोद्गतामन्दप्रकाशरूपाप्राथमिकी तिलकमञ्जरी व्याख्याकृतिः १,अनधीतव्याकरणनैयायकादीनां परस्मैपदात्मनेपदोभयपदविवेकोपसर्गसम्बन्धादिकृतवैलक्षण्यानभिज्ञानामधीतव्याक. रणानामपि मन्दप्रज्ञानां धातुरूपावगतिसौलभ्यकारी धातुरत्नाकरः २, सन् घटः सन् पट इत्यादिप्रतीतो भासमानमनुगतं सत्त्वं न नैयायिकाद्यभिमतं परसामान्यं, नापि बौद्धाद्यभिमतमर्थक्रियाकारित्वं, नापि वेदान्त्यभिमतमद्वितीयब्रह्मरूपं, नापि साङ्ख्यायभिमतं सत्त्वरजस्तमस्स्वरूपत्रिगुणात्मकत्वं, तनिराकरणयुक्तीनां सम्मत्यादावुपदर्शितत्वात्, किन्तूत्पाद-व्यय-ध्रौव्यात्मकत्वं, सर्व वस्तु प्रतिक्षणं पूर्वपर्यायरूपेण विनश्यति वर्तमानपर्यायरूपेणोत्पद्यते पूर्वापरपर्यायानुस्यूतद्रव्यरूपेणावतिष्ठते, एतदेव अष्टसहस्याम्
'घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ॥ १ ॥
इति पद्येन निर्णीतम् ।