________________
४]
[ तत्त्वबोधिनीविवृतिविभूषितम् न्येऽप्यतिप्रसज्यत इति, तस्माद् यत् स्वकीयं साम्प्रतकालीनं च तद् वस्तु, लिङ्ग-सङ्ख्यादिभेदेऽपि 'तटः, तटी, तटम्' इत्यादौ, 'गुरुर्गुरवः' 'आपो जलम् , दाराः कलत्रम्' इत्यादौ च विपरिणतनानापर्यायशब्दवाच्यं निक्षेपचतुष्टयाक्रान्तमप्येकमेव स्वीकुरुते ऋजुसूत्रनयः, न तु शब्दनयवद् भावरूपैकनिक्षेपाक्रान्तं लिङ्ग-सङ्ख्याभिन्नपर्यायशब्दावाच्यं च, तदाह भाष्यकृत्
"तम्हा णिययं संपइकालीणं लिङ्ग-वयणभिन्नं पि । नामादिभेयविहियं, पडिवजइ वत्थुमुजुसुओ त्ति ॥"
[ विशेषावश्यकभाष्यगाथा-२२२३ ] समस्तीति सामान्याभ्युपगमोऽपि व्यवहारनयस्य प्रसज्यत इत्यर्थः। ऋजुसूत्रनयाभ्युपगन्तव्यमुपसंहरन्नाह-तस्मादिति । 'तद् वस्तु' 'स्वीकुरुते ऋजुसूत्रनयः' इत्यन्वयः । ‘लिङ्ग-सङ्ख्यादि' इत्यादिपदाद् वचन-पर्यायादीनामुपग्रहः, 'लिङ्ग-सङ्ख्यादिभेदेऽपि' 'एवमेव स्वाकुरुते ऋजुसूत्रनयः' इत्यन्वयः, तत्र लिङ्गभेदेऽप्येकवस्त्वभ्युपगमे निदर्शनम् - 'तटः तटी, तटम्' इति, वचनभेदेऽप्यकवस्त्वभ्युपगमे निदर्शनम्'गुरुर्गुरवः' इति, पर्याय-वचनलिङ्गत्रयभेदेऽप्येकवस्त्वभ्युपगमे निदर्शनम्-' आपो जलम् , दाराः कलत्रम्' इत्यादौ चेति । विपरिणतेति'तटः, तटी, तटम्' इत्यादौ लिङ्गविपरिणामः, “गुरुर्गुरवः' इत्यादौ वचनविपरिणामः, 'आपो जलम् , दाराः कलत्रम्' इत्यादौ च वचनभेदः पर्यायभेदो लिङ्गभेदश्चेति । निक्षेपचतुष्टयाक्रान्तमितिऋजुसूत्रनयो नाम-स्थापना-द्रव्य-भावात्मकनिक्षेपचतुष्टयमप्येकस्मिन् वस्तुन्यभ्युपगच्छतीति निरुक्तनिक्षेपचतुष्टयाक्रान्तमित्यर्थः। एतावता शब्दनयतोऽस्य वैलक्षण्यमावेदितं भवति, तदेव स्पष्टयतिन विति-अस्य च वाक्यान्तेऽनुकर्षणीयेन 'स्वीकुरुते' इत्यनेनान्वयः। शब्दनयवत् साम्प्रत-समभिरूढवम्भूतेति त्रिविधशब्दनयवदित्यर्थः । तत्र साम्प्रतनयः पर्यायभेदेऽप्येकमर्थमुररीकरोति, परं समभिरूढे