________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३ लक्षणत्वात्। अत एव व्यवहारनयवादिनं प्रत्ययमेवं पर्यनुयुङ्क्तेयदि व्यवहारानुपयोगादनुपलम्भाच सङ्ग्रहनयसम्मतं सामान्य त्वं नाभ्युपगच्छसि ? तदा तत एव हेतुद्वयाद् गतमेष्यत् परकीयं च वस्तु माऽभ्युपगमः, नहि तैः कश्चिद् व्यवहारः क्रियते, उपलब्धिविषयीभूयते वा, वासनाविशेषजनितो व्यवहारस्तु सामा
इत्यस्यान्वयः । स्वप्रयोजनानिष्पादकत्वेऽपि कथं स्वापेक्षयाऽसत्त्वमित्यपेक्षायामाह-वार्थति । अत एव स्वार्थक्रियाकारित्वलक्षणस्वसत्वराहित्यादतीता-ऽनागत-परकीयानामेतन्मतेऽसत्त्वादेव । अयम् ऋजुसूत्रनयः । एवं 'यदि' इत्यादिनाऽनन्तराभिधीयमानप्रकारेण । पयनुयुङ्क्ते प्रश्नयति । यदीति-अस्य ‘नाभ्युपगच्छसि' इत्यत्रान्वयः। व्यवहारानुपयोगात् आनयन-नयन-दोहन-वाहनादिव्यवहारो गवादिव्यक्तित एव न तु गोत्व-द्रव्यत्वादिसामान्यत इति व्यवहारासम्पादकत्वात् । अनुपलम्भाच्च प्रत्यक्षे गवादिव्यक्तिरेव भासते, न तु गोत्वादि सामान्यं गवादिव्यक्तिभ्यः पृथक्तयोपलभ्यत इत्युपलम्भाभावादपि, एतद् द्वयमभ्युपगमाभावे हेतुः । त्वं व्यवहारनयः, तत एव हेतुद्वयात् व्यवहारानुपयोगा-ऽनुपलम्भलक्षणहेतुद्वयादेव, अस्य 'माऽभ्युपगमः' इत्यत्रान्वयः, गतम् अतीतम् , एष्यत् अनागतम् , परकीयं परसम्बन्धि, माऽभ्युपगमः हे व्यवहारनय! त्वं मा स्वीकुर्याः । अतीतत्वादिषु त्रिषु व्यवहारानुपयोगा-ऽनुपलम्भौ दर्शयति-नहीति । तैः अतीतादिभिः । ननु 'अतीतो घटः, भविष्यति घटः, इदमस्य न भवति' इत्येवं व्यवहारोऽतीतादिषु दृश्यत एवेत्यत आह-वासनाविशेषजनित इति- सोऽयं व्यवहारोऽतीतादिरर्थोऽप्यस्तीत्येतादृशार्थाभ्युपगन्तृप्रणीतशास्त्राभ्याससंस्कारादेवोपजायत इति न तद्बलादतीतादिवस्त्वभ्युगमः स्वीकरणीयः, वासनाविशेषजनितव्यवहारतोऽपि वस्तुनः स्वीकारे सामान्याभ्युपगन्तप्रणीतशास्त्राभ्यासतः सामान्येऽपि वासनाविशेषजनितो व्यवहारः