________________
अनेकान्तव्यवस्थाप्रकरणम् ]
अस्मानयात् परपर्यायासंस्पर्शिन्येकपर्याये वचनं विच्छिन्द बौद्धदर्शनं प्रवृत्तम् , तथा च तदनुसारिणः पठन्ति
"पलालं न दहत्यग्निर्दह्यते न गिरिः क्वचित् । नासंयतः प्रव्रजति, भव्यजीवो न सिध्यति ॥"
वम्भूतौ तु पर्यायभेदेऽर्थभेदमुररीकुरुत इति तदवलम्बनेन ‘पर्यायशब्दावाच्यम्' इत्युक्तम् । उक्तार्थे भाष्यसम्मतिमाह-तदाह भाष्यकृदिति । तम्हा० इति-"तस्मान्निजकं सम्प्रतिकालीनं लिङ्ग-वचनभिन्नमपि । नामादिभेदविहितं प्रतिपद्यते वस्तु ऋजुसूत्र इति ॥” इति संस्कृतम् । स्पष्टत्वान्नास्य व्याख्या कृता । ऋजुसूत्रनयाद बौद्धदर्शनप्रवृत्तिरित्युपदर्शयति-अस्मान्नयादिति-ऋजुसूत्रनयादित्यर्थः, अस्य 'प्रवृत्तम् , इत्यनेन सम्बन्धः । परपर्यायासंस्पर्शिनि परपर्यायासम्बद्धे, एकपर्याये निजैकरूपपर्याये वचनं शब्दम्, विच्छिन्दत् पर्यवसानं कुर्वत् , एकपर्याय एव वस्तुन इत्येवमगच्छदिति यावत् , वर्तमानक्षणपर्यायस्यैकत्वादतीता-ऽनागत-परकीयपर्यायस्य वस्तुनोऽभावाद् वर्तमानक्षणैकरूपमेव वस्त्वित्येवमवगच्छद् बौद्धदर्शनं जातमजुसूत्रनयत इत्यर्थः । एवं कथमवधारितमायुष्मतेत्यपेक्षायामाह-तथा चेतिवस्तुनो वतमानकक्षणपर्यायस्वरूपत्वस्य बौद्धदर्शनाभिमतत्वे चेत्यर्थः । तदनुसारिणः बौद्धदर्शनानुसारिणः । तत्पठनकर्मपद्यमुपदर्शयति-पलालमिति-पलालपर्यायो नाग्निसम्बन्धकाले, तदानीं भस्मभावमनुभवन् पर्यायः पलालपर्यायादन्य एवेति स्वसम्बन्धकाले पलालपर्यायस्याभावान तस्य दहनकर्मत्वमिति युक्तं 'पलालं न दहत्यग्निः' इति, यदाग्निसम्बन्धात् पर्वतस्य दाहो भवति तदा पर्वतपर्यायादन्यपर्याय एवोपजायत इति स एव दहनक्रियाजन्यविकृतिमान् न गिरिस्तस्य तदानीमभावादतः 'क्वचिद् गिरिन दह्यते' इति,