________________
[ तत्त्वबोधिनीविवृतिविभूषितम् पलालपर्यायस्याग्निसद्भावपर्यायादत्यन्तभिन्नत्वाद् , यः पलालो नासौ दह्यते, यश्च भमभावमनुभवति नासौ पलालपर्यायमनुभवति, एवमग्रेऽपि द्रष्टव्यम् । न चैवं व्यवहारबाधः, सर्वत्र नये क्वचिदंशे तद्वाधात् । ननु क्षणक्षयसिद्धावेवं युक्तम् , तत्रैव च प्रमाणं न पश्यामः, तथाहि-न तावदध्यक्षं क्षणक्षयितामवगच्छत् प्रतीयते, परैरभ्युपगम्यते वा, यतः परैरन्त्यक्षणदर्शिनामेव प्रत्यक्षतः क्षणि
असंयतपर्यायादन्यो यः संयतपर्यायः स एव प्रव्रज्याकालसमकालीनो नासंयतस्तदानीं स्थितिमनुभवतीति 'नासंयतः प्रव्रजति' इति, यः खलु भव्यः स न मुक्तिकाले तदानीं सिद्धो भवन्नेव सिद्ध्यति, न भव्यस्तदानीं तस्याभावादिति 'भव्यजीवो न सिध्यति' इत्यर्थः । 'पलालं न दहत्यग्निः' इत्याद्यचरणाभिप्रायप्रकटनेन सम्पूर्णपद्याभिप्रेतार्थमर्थगत्या सूचयति-पलालपयायस्येति । अग्निसद्भावपर्यायात् अग्निसम्बन्धकालीनपर्यायात् । ‘अत्यन्तभिन्नत्वाद्' इत्युक्त्या नानुगामि द्रव्यं समस्ति, पूर्वपर्यायस्य निरन्वयविनाश एवेति न द्रव्यात्मनाऽप्यभेद इत्यावेदितम् । भस्मभवनस्वभावश्च पर्यायो दह्यते न तु स पलालपर्याय इत्याह-यश्चेति । प्रथमचरणव्याख्यानदर्शितदिशा चरणान्तरव्याख्यानमवसेयमित्याह-एवमग्रेऽपि द्रष्टव्यमिति । ननु 'पलालं दहत्यग्निः, गिरिदह्यते, श्रावकोऽयं प्रव्रजति, भव्यजीवः सिद्धिमेति' इति व्यवहारस्य बाध एवमुपगमे सति स्यादित्याशङ्कां प्रतिक्षिपति-न चैवमिति । निषेधे इष्टापत्तिमेव हेतुतया दर्शयतिसर्वत्रेति-'इदं सदिदं सद्' इत्येवं महासामान्यं सत्त्वमपि व्यवह्रियत एव, तद्वाधो व्यवहारनयेऽपि समस्त्येव, विशेषो अपि व्यवह्रियन्त एव, तद्वाधः सङ्ग्रहेऽपीत्येवं सर्वत्र क्वचिदंशे व्यवहारबाधादित्यर्थः, तथा चान्यनये किश्चिदंशे व्यवहारबाधो यथा न क्षतिमावहति तथा प्रकृतेऽपीति भावः । वर्तमानकक्षणमात्रस्वरूपत्वं वस्तुनोऽसहमानाः