________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७ कताया निश्चयतः प्रकल्प्यते, भ्रान्तिकारणसद्भावान्न प्राक, उक्तं च
"क्वचित् तदपरिज्ञानं, सदृशापरसम्भवात् । भ्रान्तेरपश्यतो भेदं, मायागोलकभेदवत् ॥”
] इति । नाप्यनुमानात् तन्निश्चयः, क्षणिकत्वाभ्युपगमे तदङ्गपक्षधर्मत्वास्थिरवादिनः प्रत्यवतिष्ठन्ते-नन्वित्यादिना । एवं युक्तं वर्तमानकक्षणस्वरूपवस्त्वगाहित्वं ज्ञानस्य युक्तम् । तत्रैव क्षणक्षयसिद्धावेव । वस्तूनां क्षणक्षयित्वे प्रमाणसामान्याभावस्य प्रत्यक्षादिप्रमाणविशेषाभावकूटनियतत्वात् प्रत्यक्षादिप्रमाणविशेषाभावमेव भावयतितथाहीत्यादिना । परैः बौद्धैः, अभ्युपगम्यते वा अथवा क्षणक्षयित्वे प्रत्यक्षं प्रमाणं बौद्धैर्नाभ्युपगम्यते । क्षणक्षयित्वे प्रत्यक्षं प्रमाणं बौद्धस्य नाऽभ्युपगमविषय इत्यत्र हेतुमुपदर्शयति-यत. इति ।. परैः बौद्धैः । अन्त्यक्षणेति-सजातीयप्रवाहस्य योऽन्त्यक्षणस्तद्दर्शिनामन्त्यक्षणविनाशप्रत्यक्षतः क्षयित्वमवधार्य तत्पूर्वपूर्वस्य क्षयित्वावगमनेन निश्चयतः क्षणिकता प्रकल्प्यते, पूर्व तु सौसादृश्यलक्षणदोषस्य पूर्वाऽपरक्षणयोस्तादात्म्यभ्रमकारणस्य सद्भावान क्षणिकताया निश्चयः, यदि तु प्रत्यक्षमेव क्षणक्षयमवगाहेत तदाऽन्त्यक्षणदर्शनलक्षणविशेषदर्शनस्याभावेऽपि प्रथमत एव वस्तुनः प्रत्यक्षे तद्गतक्षणक्षयित्वस्यावभासनं स्यादिति भावः, अत्र "क्षणिकताया निश्चयः प्रकल्प्यते" "क्षणिकता निश्चयतः प्रकल्प्यते” इति वा पाठः समीचीनः।
___ अन्त्यक्षणदर्शने सत्येव क्षणिकत्वज्ञानं प्राक् तु सादृश्यदोषान्न तज्ज्ञानमित्यत्र प्राचां वचनं संवादकतया दर्शयति-उक्तं चेति-सदृशापरसम्भवाद् भ्रान्तेर्भेदमपश्यतो मायागोलकभेदवत् क्वचित् तदपरिज्ञानमित्यन्वयः।