________________
[तत्त्वबोधिनीविवृतिविभूषितम् देरेव निश्चेतुमशक्यत्वात् , सर्वोपसंहारेण व्याप्तिग्रहोपायाभावाच, विकल्पस्याप्रमाणत्वेन तदग्राहकत्वात् , निर्विकल्पेन च तत्संस्पर्शस्यापि कर्तुमशक्यत्वात् , न चान्यद बौद्धानां प्रमाणमस्ति; प्रत्यभिज्ञाप्रत्यक्षाच्च भावानां स्थैर्यप्रतिपत्तिः क्षणिकत्ववाधिका, न च
अनुमानादपि क्षणिकत्वनिश्चयो न सम्भवतीति नानुमानमपि क्षणक्षयित्वे प्रमाणमित्याह-नापीति । तन्निश्चयः क्षणक्षयित्वनिश्चयः । किश्चिद्धेतुकक्षणिकत्वसाध्यकशब्दादिपक्षकानुमानं तदा भवेद् यदि क्षणिकत्वसाधकहेतौ शब्दादिलक्षणपक्षधर्मत्वमनुमानाङ्गं निश्चितं स्यात् , क्षणिकत्वाभ्युपगमे तु हेतुग्रहणसमये क्षणिकः पक्षो विनष्ट एवेति न तद्धर्मत्वग्रहणसम्भवः, पक्षग्रहणकाले चागृहीते हेतावपि न तद्रहणसम्भव इति न पक्षधर्मत्वग्रहणसम्भव इति तद्रूपकारणाभावान्नाऽनुमानप्रवृत्तिसम्भव इत्याह-क्षणिकत्वाभ्युपगम इति । सर्वोपसंहारेण व्याप्तिग्रहे सत्येवानुमानमुदेतीति सर्वोपसंहारेण व्याप्तिग्रहणमनुमानाङ्गम् , तस्याप्युपायाभावान्न सम्भव इत्यतोऽपि न क्षणिकत्वानुमानसम्भव इत्याह-सर्वोपसंहारेणेति । ननु प्रत्यक्षस्य पुरोवर्तिसन्निकृष्टमात्रविषयकत्वे सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावेऽपि विकल्पस्तद्राहकः स्यादित्यत आह-विकल्पस्येति । तदग्राहकत्वात् सर्वोपसंहारेण व्याप्त्यग्राहकत्वात् । निर्विकल्पकप्रत्यक्षं च स्वलक्षणमात्रविषयकत्वेनैव बौद्धेनोपगतमिति तेन न भवेदेव सर्वोपसंहारेण व्याप्तिग्रहणमित्याह-निर्विकल्पेन चेति । तत्संस्पर्शस्यापि सर्वोपसंहारेण व्याप्तिसंस्पर्शस्यापि, एवं चानुमानाङ्गपक्षधर्मत्वव्याप्तिग्रहणयोरभावात् क्षणिकत्वसाध्यकानुमानमेव न सम्भवतीति नानुमानमपि क्षणिकत्वे प्रमाणमिति भावः । प्रत्यक्षाऽनुमानभेदेन द्विविधमेव च प्रमाणं सौगतैरुपेयत इति तदुभयव्यतिरिक्तं प्रमाणं स्वानभ्युपगमपराहतमेवेति न तत्रोपदर्शयितुं शक्यमित्याह-न चेति ।