________________
अनेकान्तव्यवस्थाप्रकरणम् ] प्रत्यभिज्ञानमप्रमाणम् , " तत्रापूर्वार्थविज्ञानं, निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं, प्रमाणं लोकसम्मतम् ॥"
इति प्रमाणलक्षणयोगात्, न च स्मृतिपूर्वकत्वात् स एवायमिति प्रत्यभिज्ञानुसन्धानस्य प्रत्यक्षत्वमयुक्तमिति वाच्यम् , सत्सम्प्रयोगजत्वेन स्मरणपश्चाद्भाविनोऽप्यक्षजप्रत्ययस्य लोकप्रत्यक्षत्वेन प्रसि
अन्यत् प्रत्यक्षा नुमानव्यतिरिक्तम् , तथा च यावत्प्रमाणविशेषाभावात् प्रमाणसामान्याभावस्य क्षणिकत्वे सद्भावान्न तत् सिद्धिमुपगच्छतीति। स्थैर्यग्राहकं प्रत्यमिक्षात्मकप्रत्यक्षमपि क्षणिकत्वबाधकं जागर्तीति न केवलं साधकाभावादेव न क्षणिकत्वं किन्तु बाधकसद्भावादपि न क्षणिकत्वमित्याह-प्रत्यभिज्ञाप्रत्यक्षाच्चैति । प्रत्यभिज्ञाया अप्रमाणत्वान्न तया क्षणिकत्वबाघः, अपि तु क्षणिकत्वग्राहकानुमानस्य प्रमाणत्वेन तेन प्रत्यभिज्ञाविषयस्थैर्यमेव बाधितमित्याशङ्कां प्रतिक्षिपति-न चेति । अबाधितापूर्वार्थविषयत्वेनादुष्टकारणारब्धत्वेन च प्रमाणसामान्यलक्षणेन युक्तत्वात् प्रमाणमेव प्रत्यभिज्ञेति निषेधहेतुमुपदर्शयति-तत्र । ननु भवतूक्तलक्षणयोगात् तु प्रमाणं प्रत्यभिज्ञा, स्मृतिपूर्वकत्वात् तु न प्रत्यक्षमिति 'प्रत्यभिज्ञाप्रत्यक्षाच' इत्युक्तिरयुक्तेत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः । मीमांसकवतंसको भट्टःप्रतिक्षेपहेतुमुपदर्शयति-सत्संप्रयोगजत्वेनेति-'ननु' इत्यादिना भट्ट एव बौद्धप्रतिमल्लतयाधिकृतः प्रश्नयिता, तेन जैनमते प्रत्यभिज्ञा परोक्षमेव, न प्रत्यक्षमित्यस्य न विरोधः, सता वर्तमानेनार्थनेन्द्रियस्य यः सम्प्रयोगः सन्निकर्षस्त. जन्यत्वेनेत्यर्थः । स्मरणपश्चाद्भावित्वेऽपि इन्द्रियार्थसम्प्रयोगजत्वेन प्रत्यभिज्ञानं प्रत्यक्षप्रमाणमित्यत्र भट्टस्य वचनं संवादकतयोप