________________
३५४
अनेकान्त व्यवस्थाप्रकरणम् ।
भावाऽभावादिचित्राकृति मतिजनकत्वाश्रयद्विस्वभावतादात्म्यापन्न जात्यन्तरसमनुगतै कस्वरूपो मितो यः । सोऽनेकान्तोऽस्ति नास्ति द्विविधमतिभवो नान्यथा स्याद् यतोऽतो, भावाऽभावादिरूपा द्विविध परिणतिर्वस्तुमात्रस्य मान्या ॥ ८ ॥ चर्चा चात्राप्यनेका विमतमतिबलात् कातराणां परेषां,
छिन्ना सयुक्तिपुत्रैः प्रतिनियतमतिः स्याच्च हेतोर्विशेषात् । सामग्रीसव्यपेक्षाच्छ्रुतमपि नियतग्राहि नीति प्रभेदात्,
स्यादेवं चैकवस्तुन्यपि बहुवचनं तद्बहुत्वप्रबोधे ॥ ९ ॥ इत्थं मान्या नया ये प्रतिनियतमतौ हेतुभावं भजन्ते,
ते ज्ञेया नैगमाया जिनसमयगताः सप्त सामान्यतोऽर्थान् । गृह्णात्येवं विशेषान्निगमभवतया नैगमस्तत्र भिन्नः,
सामान्यात् स्याद् विशेषस्तदपि ननु पृथक् स्याद् विशेषान्नयेऽस्मिन् ॥१०॥ भिन्नत्वेनोभयस्य ग्रहणपटुरयं न प्रमाणं ततोऽयं,
मिथ्यादृष्टिः कणादानुमतमतमिवेत्यस्य संवादनार्थम् ।
वादीन्द्रोद्गाररूपा बुधजनमहिता सम्मतिग्रन्थगाथा,
स्वस्याभीष्टार्थसिद्ध्यै विवरणकलिता दर्शिता ग्रन्थकर्त्रा ॥ ११ ॥ द्रव्यं पर्यायमेवं यदि पृथगुभयं गाहतेऽयं तदा किं,
द्रव्यार्थस्य प्रभेदो भवति न तु तथा पर्यवार्थस्य भेदः । द्रव्यार्थ चैनमार्यः कथयति सुधियामग्रणीः सिद्धसेन -
श्वाप्तः सिद्धान्तवेत्ताऽप्यनुमनुत इमं पूज्यपादस्तथैव ॥ १२ ॥ एतच्छङ्कापनुत्यै कथयति विबुधो ग्रन्थकारोऽत्र युक्ति
स्वस्वान्यग्राह्यबाधप्रथनपरतया स्यात् तु नीतेर्व्यवस्था । द्रव्यांशं नैव चायं क्षिपति ननु ततः पर्यवग्राहिभावे,
द्रव्यार्थोऽयं निरुक्तो बहुविध उदितश्चात्र सिद्धान्तवादः ॥ १३ ॥ सामान्यग्राहकोऽयं प्रविशति नियतं सङ्ग्रहे स्याद् विशेष
ग्राही चायं तथैव व्यवहृतिनयगस्तेन ताभ्यां न भिन्नः । इत्येवं सम्मतौ नो पृथगयमुदितो यन्मतेऽयं विभिन्नो,
नानाभिप्रायभेदा अनुमतिविषयास्तन्मते चास्य मान्याः ॥ १४ ॥