________________
तत्त्वबोधिनीविवृतिविभूषितम् ३५५ केचिच्चात्मैव सर्व त्वभिदधति परे सोऽपि चैकोऽप्यनेकः,
प्राहुश्चेत्थं तथाऽन्येऽभिदधति कतिधा कर्तृतादिप्रकारः। . कस्यापीष्टं प्रधानाजगदिदमभवत् सेश्वरं तत् तथाऽन्य
दन्यैस्त्वेतन्मतं चाणुनिचयप्रभवं सेश्वरादिप्रभेदम् ॥ १५ ॥ कर्ता कर्मव्यपेक्षो भवति तु जगतश्चेश्वरो न स्वतन्त्रो,
नायं कर्मव्यपेक्षो विरचयति जगद् हीयते चेश्वरत्वम् ।। इत्थं कस्यापि चेष्टं नियतिप्रभृतयः सन्त्यनेकेऽपि वादा___ स्ते सर्वे सम्मतौ यन्ननु निगमपदार्था निरुक्ता विभाव्याः ॥ १६ ॥ जातं वैशेषिकाणां मतमिह नयतो नैगमादेव तत्र,
द्रव्याद्याः षट् पदार्था विभजनकलया दर्शिताः संविभक्ताः । नो युक्त्या युज्यते तन्मतमिति घटना खण्डनोक्त्या समिद्धा,
सङ्ख्यानामा पदार्थोऽप्यनुभवपदवीं याति यस्माद् विभिन्नः ॥ १७ ॥ शक्तिर्दाहादिकार्ये दहनप्रभृतिगा मानसिद्धाऽपि मान्या
नो तस्याः खण्डनार्था परमननघटा युक्तितत्त्वोपपन्ना। .. वैशिष्ट्याख्यः पदार्थोऽप्यपर इह भवेद् युक्तितस्तस्य सिद्धि___ों तद्बाधाप्रकारः कणभुगनुमतो युक्तिमार्ग प्रयाति ॥ १८ ॥ सादृश्यं चापि भिन्नं न च परकलितं तत्स्वरूपं तु सम्यक्,
स्यादेवं कारणत्वं न च तदपि परोक्तस्वरूपानुषक्तम् । या तत्रैवान्यथासिद्धिविभजनकथा पञ्चधा तस्य मान्या
सा तद्युक्तिप्रपञ्चैः प्रथममुपगमागारभागे प्रविष्टा ॥ १९ ॥ पश्चात् साऽपि व्युदस्ता क्रमत इह यतो नो परोक्तिप्रपञ्चो,
हेतावात्मेश्वरादौ घटत इतरथा साऽन्यथासिद्धिकन्था । तत्रोद्धारप्रकारो न च परगदितो युक्तिमार्गानुगामी,
तस्माद्धेतुत्वमन्यत् कलयतु सुकृती क्वान्यथासिद्धिवार्ता ॥ २० ॥ आधारत्वं तथाऽन्यद् भवति च प्रतियोगित्वमन्यत् तथैव,
नात्राऽप्यन्योक्तमार्गो भवति विषयता तद्वदेवातिरिक्ता । एवं चान्येऽपि धर्मा अनुभवपदवीं भेददृष्ट्या प्रयान्ति,
ते चाभेदैकदृष्ट्या मननमुपगता नैव भेदं सहन्ते ॥ २१ ॥