________________
३५६
अनेकान्तव्यवस्थाप्रकरणम् ।
wwww
तस्मात् कान्तं कृतान्तं जिनवचनमितानन्तधर्मात्मवस्तूद्वारोल्लेखं प्रमाणं श्रयतु ननु बुधो हेमसूर्यात्तभासम् । इत्थं वैशेषिकाणां मतमिह दलितं तद्दिशैवाऽऽक्षपादं,
wwwwww
सर्वं दुःस्थं पदार्थाकलनमिति दिशा नैगमस्य प्रपूर्णा ॥ २२ ॥ सामान्येनाखिलस्य ग्रहणपटुरसौ सङ्ग्रहाख्यो नयोऽन्यो,
यत्राऽन्यो नो विशेषोऽभ्युपगमविषयो वस्तुमात्रं सदैव । सत्ताऽनन्यत्वभावे सति भवति घटादिर्हि भावोऽन्यथा नो,
तस्मादस्तिक्रियैवाखिलवचनगताऽश्रूयमाणाऽपि योज्या ॥ २३ ॥ एतन्नीतिप्रभावात् खलु हरिरवदत् सर्वशब्दाभिधेयं,
चास्त्यर्थं सच्चिदानन्दमयमपि परब्रह्म चाद्वैतरूपम् । वस्तु स्वीकृत्य मायामयमखिलमिदं दृश्यमानं जगचा
ऽवस्त्वेवेति ब्रुत्राणो मतमपरमतो निर्ममे ब्रह्मवादी ॥ २४ ॥ मायैवाज्ञानरूपाऽप्यघटितघटनार्था समष्ट्यादिरूपा,
wwwwmm
प्राधान्याच्छुद्धसत्त्वा कलयति ननु सा चेश्वरोपाधिभावम् । हेतुत्वात् सा समष्टिर्जगत इह मता व्यष्टिरूपा त्वनेका,
जीवोपाधिः प्रधानान्मलिनगुणमयी कोशभेदो विभक्तः ॥ २५ ॥ अस्याज्ञानस्य शक्तिद्वयमपि गदितं चावृणोत्येकया तत्,
याsन्या विक्षेपशक्तिर्ननु भवति तया सृष्टिरस्याखिलस्य । तत्सृष्टस्तु प्रकारो बहुविध उदितस्तत्प्रसङ्गाच्च लिङ्गं,
प्रोक्तं तस्यापि सप्तोत्तरदशप्रमिताश्चाङ्गभेदा निरुक्ताः ॥ २६ ॥ कोशाख्यानं तु तत्राऽन्यदपि बहुविधं तस्य मान्यं प्रसङ्गा
दुक्तं प्राणादिपञ्चीकरणगमनिका दर्शिता तस्य मान्या । अध्यारोपा - Sपवादावपि तदनुमतौ दर्शितौ शोधितौ स्त
स्ताभ्यां तत्त्वम्पदार्थौ पृथगपि गदितस्तत्त्वमोरर्थभेदः ॥ २७ ॥ तत्राखण्डार्थबोधानुगुणमभिहितं तत्त्वमस्यादिवाक्ये,
सम्बन्धानां त्रिकं चोपगमपदमिता लक्षणा भागमात्रे । वाक्योत्थाखण्डबोधात् परचिदनुगताज्ञानबाधाच्च शुद्ध
ब्रह्मावस्थानमुक्तं प्रमितिमुपगता ब्रह्मणो वृत्तिरेवम् ॥ २८ ॥