________________
तत्त्वबोधिनीविवृतिविभूषितम्
२४३
रोपादानप्रतिषेधाकारिणि, इत्थं च ' स्यादस्ति' इत्यादि प्रमाणम्, 'अस्त्येव' इत्यादि दुर्नयः, 'अस्ति' इत्यादिकः सुनयः, न तु स व्यवहाराङ्गम्, ‘स्यादस्त्येव' इत्यादिस्तु सुनय एव व्यवहारकारणम्, स्व-परानुवृत्त-व्यावृत्तवस्तुविषयप्रवर्त्तकवाक्यस्य व्यवहारकारणत्वादिति ग्रन्थकृतो विवेचयन्ति ॥
अत्र सप्तभङ्ग्यामाद्यभङ्गक स्त्रिधा, द्वितीयोऽपि त्रिधा, तृतीयो दशधा, चतुर्थोऽपि दशधैव, पञ्चमादयस्तु त्रिंशदधिकशतपरिमाणाः, प्रत्येकं श्रीमन्मल्लवादिप्रभृतिभिर्दर्शिताः । पुनश्च षट्त्रिंशदधिकचतुर्दशशतपरिमाणास्त एव च व्यादिसंयोगकल्पनया कोटिशो भवन्तीत्यभिहितं तैरेवेति तद्विस्तरस्तद्व्रन्थादेवावसेयः ॥
अथाऽनन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पने
प्रतिषेधतीत्यत उदासीने स्वार्थमात्रप्रतिपादनप्रवणे भङ्गे सुनयत्वम्, इत्थं च अनेन प्रकारेण द्विधा सुनयत्वव्यवस्थितौ च 'स्यादस्तीत्यादि' इत्यादिपदात् 'स्यान्नास्ति' इत्यादेरुपग्रहः । ‘अस्तीत्येवेत्यादि' इत्यादिपदान्नास्त्येवेत्यादेर्ग्रहणम् । 'अस्तीत्यादिकः' इत्यत्रादिपदान्नास्तीत्यादेः परिग्रहः । तत्र स्वार्थमात्रप्रतिपादनप्रवणं सुनयवाक्यं न व्यवहाराङ्गं किन्तु स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वलक्षणसुनयत्वाकलितवाक्यमेव व्यवहाराङ्गमित्याह - न त्विति । स अस्तीत्यादिकः सुनयः । कथं 'स्यादस्त्येव' इत्यादिरेव सुनयो व्यवहारकारणमित्यपेक्षायामाहस्व-परेति । विशेषजिज्ञासून् प्रत्युपदिशति — अत्रेति - आद्यभङ्गादीनां त्रिप्रकारादिकं श्रीमल्लवाद्यादिग्रन्थादवसेयम् । त एव आद्यभङ्गादिका एव । तैरेव श्रीमन्मलवादिप्रभृतिभिरेव । कथमित्थमितिजिज्ञासानिवृत्तये तद्ग्रन्थावलोकनं कर्तव्यं ग्रन्थगौरवभयान्नात्र तद्विशदीकरणमित्युपदिशति - तद्विस्तर स्त्विति ॥
1
ननु सप्तधर्मप्रतिपादकसप्तभङ्गीवाक्यवदनन्तधर्मात्मके वस्तुन्यष्टविध-नवविधधर्मादेरपि भावात् तत्प्रतिपादकाष्टभङ्गी - नवभक्त्यादीनामपि सम्भवात् तत्कल्पना किमिति न क्रियत इति शङ्कते - अथेति । तत्प्रतिपादकेति - अनन्तधर्मात्मकवस्तु