________________
२४२
अनेकान्तव्यवस्थाप्रकरणम् । सत्त्वे नियतोऽपरस्तु असद्भावे-असत्त्वे, तृतीयस्तूभयथेत्येवं देशानां सदसदवक्तव्यव्यपदेशात् तदपि द्रव्यमस्ति च नास्ति चावक्तव्यं च भवति विकल्पवशात् , तथाभूतविशेषणाध्यासितस्य द्रव्यस्यानेन प्रतिपादनादपरभङ्गव्युदासः ७ ॥
एते च परस्पररूपापेक्षया सप्तभङ्गयात्मकाः प्रत्येकं स्वार्थ प्रतिपादयन्ति नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति सम्प्रदायविदो वदन्ति ॥ तत्र जिज्ञासितसप्तधर्मात्मकताप्रतिपादकत्वपर्याप्त्यधिकरणमहावाक्यत्वरूपसप्तभङ्गीत्वं समुदाय एव निरुक्तप्रतिपादकत्वाधिकरणवाक्यत्वरूपं च तत् प्रत्येकमपीति विवेकः, अत एव स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादनप्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति, आद्यं सप्तभङ्ग्यात्मकमहावाक्यैकवाक्यतापन्नवाक्ये, अन्त्यं चोदासीने धर्मान्त
mM
अस्यार्थः ‘सब्भाव०' इति वचनस्यार्थः । तथाभूतविशेषणाध्यासितस्य अस्तित्व-नास्तित्वा-ऽवक्तव्यत्वैतद्धर्मत्रयात्मकविशेषणविशिष्टस्य । अनेन सप्तमभङ्गेन। एते च अनन्तरं क्रमेण निरूपिताः सप्तापि भङ्गाः । नान्यथा परस्पररूपानपेक्षत्वे खार्थ न प्रतिपादयन्ति । तथाभूतं परस्परापेक्षसप्तधर्मात्मकम् । अत्र निरुच्य सप्तभङ्गीत्वं सप्तभङ्गसमुदाये प्रत्येकं भङ्गे च दर्शयति-तत्रेति-सप्तानां भङ्गानां जिज्ञासितसप्तधर्मात्मकताप्रतिपादकत्वे तत्पर्याप्तिः सप्तस्वेव वर्तते न प्रत्येकमिति तत्पर्याप्यधिकरणमहावाक्यत्वलक्षणं सप्तभङ्गीत्वं सप्तभङ्गसमुदाय एवेति सप्तभङ्गसमुदाय एव सप्तभङ्गी, जिज्ञासितसप्तधर्मात्मकताप्रतिपादकत्वं च प्रत्येकभङ्गेष्वपि वर्तत इति तथाभूतप्रतिपादकताधिकरणवाक्यात्मकं सप्तभङ्गीत्वं च प्रत्येकमपीति विवेक इत्यर्थः । अत एव यत एव सप्तभङ्गीत्वं सप्तभङ्गसमुदाय एव प्रत्येकभङ्गेष्वपि वेति विवेकस्तत एव आद्यं स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वलक्षणं सुनयत्वम् । अन्त्यं स्वार्थमात्रप्रतिपादनप्रवणत्वलक्षणं सुनयत्वम्, 'उदासीने' इत्यस्य पर्यवसितस्वरूपनिर्वचनम्-धर्मान्तरोपादान-प्रतिषेधाकारिणीति, धर्मान्तरं नोपादत्ते नापि