________________
२४४ अनेकान्तव्यवस्थाप्रकरणम् । ऽष्टम-नवमविकल्पयोः, कल्पनमपि किं न क्रियत इति चेत् ? न-तत्परिकल्पननिमित्ताभावात् , तथाहि-न तावत् सावयवात्मकमन्योऽन्यनिमित्तकं तत् परिकल्पयितुं युक्तम् , चतुर्थादिवचनविकल्पेषु तस्यान्तर्भावप्रसक्तेः, नापि निरवयवात्मकमन्योऽन्यनिमित्तकं तत् परिकल्पनामर्हति, प्रथमादिष्वन्तर्भावप्रसक्तेः, न च गत्यन्तरमस्तीति नाष्टमभङ्गकल्पना युक्ता । किञ्च, असौ क्रमेण वा तद्धर्मद्वयं प्रतिपादयेद् ? यौगपद्येन वा ? प्रथमपक्षे गुण-प्रधानभावेन तत्प्रतिपादने प्रथम-द्वितीययोरन्तर्भावः, प्रधानभावेन तत्प्रतिपादने चतुर्थे, यौगपद्येन तत्प्रतिपादने तृतीये, भङ्गकसंयोगेन भङ्गान्तरकल्पनायां प्रथम-द्वितीयसंयोगे चतुर्थ एव प्रसज्यते, प्रथम-तृतीयसंयोगात् पञ्चमः, द्वितीय-तृतीयसंयोगात् षष्ठः, प्रथम-द्वितीय-तृतीयसंयोगात् सप्तमः, प्रथम-चतुर्थादिसंयोगकल्पना तु पौनरुक्त्यभयादनुप्रतिपादकेयर्थः । समाधत्ते-नेति । तत्परिकल्पनेति-अष्टम-नवमविकल्पकल्पनेत्यर्थः । तत्परिकल्पननिमित्ताभावमेवोपपादयति-तथाहीति । अष्टम-नवमभङ्गादिकं सावयवं परिकल्प्येत, निरवयव वा ? तत्र सावयवं कल्पयितुं न शक्यत इत्याहन तावदिति-नञो 'युक्तम्' इत्यनेनान्वयः । तत् अष्टम-नवमादिकम् । 'चतुर्थादि' इत्यादिपदात् पञ्चम-षष्ठ-सप्तमवचनानामुपग्रहः, अस्तित्वानुविद्धनास्तित्वात्मकधर्मप्रतिपादकभङ्गपरिकल्पने तस्य चतुर्थभङ्गे, अस्तित्वानुविद्धावक्तव्यत्वप्रतिपादकभङ्गस्य पञ्चमे, एवं षष्ट-सप्तमभङ्गयोरन्तर्भाव इति । निरवयवस्यापि प्रथमादिष्वन्तभावान्न कल्पना भद्रेत्याह-नापीति । अष्टमभङ्गे कल्पिते सत्येव नवमभङ्गकल्पनाया अवसरः, तदभावे तु कुतो नवमभङ्गादिकल्पनेत्याशयेनैकस्या एवाष्टमभङ्गकल्पनाया अयुक्तत्वमावेदयति-नाष्टमभङ्गकल्पना युक्तेति । प्रतिपाद्यान्तराभावादपि नाष्टमभङ्गकल्पना युक्त्याह-किश्चेति । असौ कल्पनीयोऽष्टमभङ्गः । तत्प्रतिपादने धर्मद्वयप्रतिपादने, एवमग्रेऽपि । भङ्गकसंयोगेन एकभङ्गस्य भङ्गान्तरसंयोगेन । 'चतुर्थादि' इत्यादिपदात् पञ्चमादेर्द्वितीयादेश्वोपग्रहः । चतुर्थभङ्गः 'स्यादस्ति स्यान्नास्ति' इति, तत्र प्रथमसंयोगे ‘स्यादस्ति स्यादस्ति स्यान्नास्ति' इति स्यात्, तत्र