________________
तत्त्वबोधिनीविवृतिविभूषितम् त्थानोपहता। न च देशिदेशभेदेन धर्मिभेदादपौनरुक्त्यम् , प्रथम-चतुर्थसमाजादेतादृशप्रतीतिसिद्धौ तत्संयोगस्य निराकाङ्कत्वात् , तस्मान्न कथञ्चिदष्टमभङ्गसम्भव इति नाधिक्यम् , न चाऽवक्तव्यत्वसप्तभङ्गयां तृतीयभङ्गस्य प्रथमभङ्गाद् वक्तव्यत्वसप्तभङ्गयां च द्वितीयभङ्गादविशेषान्यूनत्वमपि शङ्कनीयम् , तत्रांशांशग्राहकधर्मेणावक्तव्यत्व-वक्तव्यत्वयोरेव प्रथम-द्वितीयभङ्गार्थत्वादंशावक्तव्यत्ववक्तव्यत्वतद्विपर्ययाभ्यामवक्तव्यस्यैव तृतीयभङ्गार्थत्वादिति दिक् । इत्थमुक्तन्यायेन वस्तुप्रतिपादने सप्तविध एव वचनमार्ग इति स्थितम् ॥ यदेव 'स्यादस्ति' इत्येकेन प्रतिपाद्यं द्वितीयेनापि 'स्यादस्ति' इत्यनेन तदेव प्रतिपाद्यमित्येवं पौनरुक्त्यभयात् प्रथम-चतुर्थसंयोगकल्पनाऽनुत्थानोपहता, एवमेव द्वितीयादि-चतुर्थादिसंयोगकल्पनाऽपीति । ननु देशिनो देशा बहव इत्येकदेशे यथाऽस्तित्वविवक्षा तथा द्वितीयदेशेऽप्यस्तित्वविवक्षा, तदन्यदेशे च नास्तित्वविवक्षा, ततश्च तत्र देशिन्येकदेशगतास्तित्वमन्यदन्यदेशगतास्तित्वमन्यदित्यतः प्रथम-चतुर्थसंयोगकल्पना न पौनरुक्त्यास्कन्दितेति नानुत्थानोपहता, एवमेवैकदेशगतनास्तित्व-तदन्यदेशगतनास्तित्वयोरपि विभिन्नत्वात् तद्विवक्षातो द्वितीय-चतुर्थसंयोगकल्पनाऽपि न पौनरुक्त्यकलङ्किता, इत्थमेव चान्यसंयोगकल्पनाऽपीत्याशङ्कय प्रतिक्षिपति-न चेति। यद्यद्देशगतास्तित्वं सम्भावितं तत् तत् 'स्यादस्ति' इत्येनेनैकेन प्रतिपाद्यम् , यद्यद्देशगतनास्तित्वं सम्भावितं तत् तत् 'स्यान्नास्ति' इत्येकेन प्रतिपाद्यम् , देशाविशेषितमस्तित्वं च 'स्यादस्त्येव' इत्यनेन प्रथमभङ्गेन प्रतिपाद्यमित्येवं प्रथम-चतुर्थसमाजादेतादृशप्रतीतेः सम्भवेन तत्संयोगस्य निराकाङ्क्षत्वात् कल्पना न युक्तेति निषेधहेतुमुपदर्शयति-प्रथमेति । उपसंहरति-तस्मादिति । ननु अस्तित्वधर्मसमाश्रयणेन तत्प्रतिपक्षनास्तित्वधर्ममुपादाय यथा सप्तभङ्गी तथाऽवक्तव्यत्वधर्मसमाश्रयणेन तत्प्रतिपक्षवक्तव्यत्वधर्ममुपादायापि सप्तभङ्गी भवतोऽभिमतैव, सा च 'स्यादवक्तव्य एव घटः, स्याद् वक्तव्य एव घटः, स्याद् वक्तव्य एव' इत्यादिदिशोपदर्शनीया भवति, तत्र तृतीयभङ्गस्य प्रथमभङ्गादविशेषान्न प्रयोक्तव्यत्वमिति न्यूनत्वम् , एवं वक्तव्यत्वधर्मसमाश्रयणेन तत्प्रतिपक्षावक्तव्यत्वधर्ममुपादायापि या सप्तभङ्गी सा 'स्याद् वक्तव्य एव घटा, स्यादवक्तव्य एव घटः, स्यादवक्तव्य एव घटः' इत्यादिनीत्यैव