________________
'स्याद्वादार्थः क्वापि कस्यापि शास्त्रे, यः स्यात्कश्चिदृष्टिवादार्णवोत्थः। .
तद्वयाख्याने भारती सस्पृहा मे, भक्तिव्यक्त ग्रहोऽणौ पृथौ वा ॥१॥' : इत्युक्तिः स्याद्वादैकान्तभक्तिप्रतिपादिका, तीर्थान्तरीयेऽपि स्वसमयान्यसमयवर्तिनि स्याद्वादसरणिमवलम्ब्य पदार्थस्वीकर्तरि ममताबुद्धयोपदेशसमीहाऽस्यासीत् , यतो मूले वृक्षः कपिसंयोगी न शाखायामिति प्रतीतिबलात्कपिसंयोगिन्यपि वृक्षे कपिसंयोगिभेदं घटवत्यपि भूतले पटत्वेन घटो नास्तीति प्रतीतिबलात्पटत्वावच्छिन्नघटनिष्ठप्रतियोगिताकाभावञ्चाभ्युपगच्छन्तं शिरोमणि प्रति'अव्याप्यवृत्तिगुणिभेदमुदीर्य नव्या,-भावं प्रकल्प्य च कथं न शिरोमणे ! त्वम् ॥ स्याद्वादमाश्रयसि सर्वनयोपपन्नं, ब्रूमः प्रसार्य निजपाणिमिति त्वदीयाः ॥ १॥
इत्युक्तिः स्याद्वादाश्रयणोपदेशरूपति, यथा च विधिनिषेधरूपयोर्गुणिभेदाभेदयोरवच्छेदकमेदेनैकत्रावस्थानमविरुद्धं तथान्यत्रापि विधिनिषेधयोरवच्छेदकभेदेनैकत्रावस्थानं स्यादेव, घटवत्यपि पटत्वादिरूपव्यधिकरणधर्मावच्छिन्नप्रतियोगिताको घटाभावो वर्तते, न च तत्र विरोधः, तथा खद्रव्य-क्षेत्र-काल-भावावच्छेदेन सत्त्ववत्यपि परद्रव्य-क्षेत्र-काल-भावावच्छेदेन सत्त्वाभावः स्यादेव, 'सर्वे धर्मा अव्याप्यवृत्तयो धर्मत्वात्कपिसंयोगादिवद्-इत्यनुमानेन सर्वेषां धर्माणामव्याप्यवृत्तित्वसिद्धो स्वाभावसामानाधिकरण्यसिद्धया स्याद्वादसिद्धिरप्रतिहता सर्वत्रेत्युपदेशः सर्वांस्तीर्थान्तरीयान प्रत्यविशिष्टोऽपि कपिसंयोगतद्वद्भेदादीनामव्याप्यवृत्तित्वमभ्युपगच्छन्तं शिरोमणिम्प्रति विशेषेण दत्तपदो भवतीति ।
केवलिनि साकारानाकारोपयोगरूपयोनिदर्शनयोर्योगपद्यं मल्लवादी प्रतिपादयति, जिनभद्रगणिक्षमाश्रमणास्तु ऋमिकत्वमुशन्ति, सिद्धसेनदिवाकरस्तु यदेव ज्ञानन्तदेव दर्शनमित्येकं कथयति, 'केवली जं समयं जाणइ न तं समयं पस्सई' इत्यागमविरोधमपि स्वस्वमते व्याख्यानभेदेन परिहरन्ति, इत्थं मतभेदे किमत्र तत्त्वम् ? न हि परस्परविरुद्धं सर्वमेव तत्त्वं भवितुमर्हतीत्येवं सन्दिहानाः परे. अल्पबुद्धयो मा नामैवमवहेलनां स्याद्वादवादिषु कुर्युः, यदुत ये विशिष्टप्रज्ञाशालिनः स्याद्वादवादिनः स्वगृह एव वैमत्यकोलाहलं कुर्वन्ति ते कथमेकान्ततापनयनेन पराभिहितपदार्थेष्वनेकान्ततां व्यवस्थापयिष्यन्ति ? तथा व्यवस्थायां वा कः श्रद्धां विधास्यतीत्यादिकुविचारपिशाचप्रवेशभयमपि सर्वनयमये स्याद्वादसङ्गरे नास्तीत्युपदर्शयितुं ज्ञानबिन्दौ