________________
२५६
अनेकान्तव्यवस्थाप्रकरणम् ।
भङ्गाविति व्याख्यातृतात्पर्य सुष्ठु घटामटाट्यते ॥ देशकृतश्चतुर्भङ्ग[ ताश्चत्वारो भङ्गा ]स्तु व्यञ्जननयेन शुद्धेन देश्यतिरिक्तदेशाऽभावादेव नोद्भावना ( र्हा) इति विभावनीयं सुधीभिः ॥ इति बुधहितहेतोर्दर्शिताः सप्तभङ्गा, जिनवचनसमुद्रोत्तुङ्ग गङ्गातरङ्गाः । दलितकुनयवादं निर्विशेषं मया श्रीनयविजयगुरूणां प्राप्य पूर्णप्रसादम् ॥
m
प्रथमद्वितीयभङ्गार्थकथञ्चिदस्तित्व-कथञ्चिन्नास्तित्वलक्षणप्रातिखिकधर्मद्वयम् । तथा च सिद्धमिदं यच्छब्दनये प्रथम - द्वितीयावेव भङ्गावित्युपसंहरति- व्यञ्जननय इति । देशिव्यतिरिक्तदेशानभ्युपगन्तृशब्दनये 'स्यादस्त्येव, स्यान्नास्त्येव' इत्याद्याश्चत्वारो भङ्गा देशकृता न सम्भवन्त्येवेत्याह- देशकृताश्चत्वारो भङ्गास्त्विति । वस्तुतः 'देशकृतचतुर्थभङ्गस्तु' इत्येव पाठो युक्तः, यतः स्यादवक्तव्य एवं' इति तृतीयभङ्गस्य शब्दनये उक्तदिशाऽभावे व्यवस्थिते पञ्चम-षष्ट- सप्तमभङ्गानां तृतीयभङ्गसंयोगलब्धात्मनामभावः सुदृढनिरूढ एवेति प्रथम द्वितीयभङ्गसंयोगकृतश्चतुर्थभङ्ग एव शब्दनये सम्भावनापथमवतरतीति तस्यैवोद्भावनाऽनर्हत्वं देश्यतिरिक्तदेशाऽभावतः प्रतिपादयितुमुचितमिति ॥
सप्तभङ्गी निरूपणोपसंहरणं पद्येनावेदयति- इतीति- इति जिनवचनसमुद्रोत्तुङ्गगङ्गातरङ्गाः सप्तभङ्गा श्रीनयविजयगुरूणां पूर्णप्रसादं प्राप्य मया बुधहितहेतोर्निर्विशेषं दलितकुनयवादं यथा स्यात् तथा दर्शिता इत्यन्वयः, अर्थस्तु व्यक्त एव । सप्तभङ्गा उक्तदिशा यथावत् समर्थिताः सुपरीक्षितार्थग्रहणकृतादराणां बुधानामभ्यासविषयतां प्राप्य स्याद्रादागमश्रद्धोत्पादनद्वारा सम्यक्त्वं सम्पादयिष्यन्तीति बुधहितहेतुत्वात् सप्तभङ्गयुपवर्णनं सप्रयोजनमेवेत्युपदर्शितुमुक्तम्- बुधहितहेतोरिति । जिनवचनाभ्यासावदातहृदयैरेवैते भङ्गाः समुद्भावयितुं शक्या इति वैशिष्ट्याधिगतये भङ्गानां 'जिनवचन' इत्यादिविशेषणम् । लब्धगुरुप्रसादस्य स्वस्य तथाविधभङ्गोपदेष्टृत्वं सम्भवति, न त्वलब्धगुरुप्रसादस्येत्यावेदयितुं श्रीनयेत्यादि । एक कुनयवादोन्मूलनेन सप्तभङ्गचुपदर्शने तन्नयवादी तथोपदेष्टरि पक्षपातित्वमारोप्य तदुपदिष्टसप्तभङ्गावलोकनेऽप्यौदास्यमासादयेत्, न चैवमित्यावेदयितुमुक्तम् - निर्विशेषं दलित कुनयचादमिति, क्रियाविशेषणम् ॥
गुरूणां नेमिसूरीणां प्रसादं प्राप्य धीमता ।
लावण्यसूरिणा व्याख्या, कृताऽस्तु विदुषां मुदे ॥
wwwwwwm