________________
तत्त्वबोधिनीविवृतिविभूषितम् २५७ तदेवं सप्तभङ्गीमङ्गीकुर्वाणमनेकान्तात्मकमेव वस्तु नय-प्रमाणात्मकचैतन्यगोचरः, सदृशा-ऽसदृशपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यैव घटादेरनुभूयमानत्वात् , येऽपि सदृशपर्यायास्तेऽपि सद्-द्रव्य-पृथिव्यादिवचनप्रतिपाद्या व्यञ्जनपर्यायाः, न तु ऋजुसूत्राभिमता अर्थपर्यायाः, अन्योऽन्यव्यावृत्तवस्तुस्वलक्षणग्राहकत्वात् तस्य ।
अनेकान्तात्मकवस्तुनो नय-प्रमाणविषयत्वं प्रतिज्ञातमुपसंहरति-तदेवमिति । सप्तभङ्गीमङ्गीकुर्वाणं स्वप्रतिपादकत्वेन सप्तभङ्गीमभ्युपगच्छत् , सप्तभङ्गीवाक्यप्रतिपाद्यमिति यावत् । सदृशपर्यायेण घटादेः सत्त्वम् , असदृशपर्यायेणासत्त्वमिति कृत्वा कथञ्चित् सन् घटः कथञ्चिदसँश्चेत्येवमेकान्तसदसद्विलक्षणं जात्यन्तरमनेकान्तात्मकं घटादिकं वस्त्वनुभूयमानत्वादभ्युपगन्तव्यमित्याह-सदृशेति-सदृशपर्यायो घटादेः सत्त्व-द्रव्यत्व-पृथ्वीत्वादिय॑ञ्जनपर्यायस्तद्रूपेण सत्त्वम् , तदन्योऽसदृशपर्यायस्तद्रूपेणाऽसत्त्वमिति सदृशाऽसदृशपर्यायाभ्याम्। एकान्तसदसद्विलक्षणस्येतियदि वस्त्वेकान्तेन सद् भवेत् सदृशपयायेणेवासदृशपर्यायेणापि सद् भवेत् , तथा च सर्वरूपेण सत्त्वे सर्वस्य सर्वात्मकत्वं प्रसज्येत, अथ वस्त्वेकान्तेनासद् भवेत् , असदृशपर्यायेणेव सदृशपर्यायेणाप्यसदिति शून्यमेव स्यात् , न चैवम् , अतो नैकान्तेन सन्नप्येकान्तेनासदित्येकान्तसदसद्विलक्षणस्येत्यर्थः, एकान्तसदसदुभयरूपत्वेऽपि प्रत्येकपक्षभाविदोषः स्यादेव, अतः सदसदुभयात्मकत्वेन जात्यन्तरात्मकमनेकान्तात्मकमेव वस्त्वित्याह-जात्यन्तरात्मकस्यैवेति । न चेत्थमननुभूयमानत्वादनुभवबाधतो नाभ्युपगन्तुं शक्यमित्यत आह-अनुभूयमानत्वादिति। सदृशपर्यायः कः ? यद्रूपेण सत्त्वमभिमतमित्यपेक्षायामाह-येऽपि सदृशपर्याया इति- सदृशपर्यायः स एव भवितुमर्हति यद्रूपेणाने कानुगमनम् , इत्थंखभावश्च व्यञ्जनपर्याय एव यः सदादिशब्देन प्रतिपाद्यते। अनेकानुगमाभावाजुसूत्रभिमतोऽर्थपर्यायस्तु न सदृशपाय इत्याह-न त्विति । निषेधे हेतुमाह-अन्योऽन्येति । तस्य अर्थपर्यायस्य, यद्यप्यसाधारणस्वरूपेण सत्त्वं साधारणस्वरूपेणासत्त्वमिलेवं विवक्षयाऽसाधारण-साधारणपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यानुभूयमानत्वादनेकान्तात्मकवस्तुसिद्धिः सम्भवति तथा च ऋजुसूत्राभिमतार्थपर्यायतोऽपि सत्त्वसङ्गमना युज्यते तथापि तां विवक्षामनादृत्यैवैतत्प्रकारेणानेकान्तात्मक
अ. व्य. १७