________________
अनेकान्त व्यवस्थाप्रकरणम् ।
'
२५८
न च, सामान्यमात्रस्य न शब्दवाच्यत्वम्, शब्दादप्रवृत्तिप्रसक्तः, सामान्यस्यार्थक्रियाऽक्षमत्वात्, सामान्यप्रतिपादनद्वारा लक्षणयाऽनुमानतो वाऽर्थक्रियाक्षमस्य विशेषस्य प्रतिपत्तेश्च क्रमप्रतिपत्तेरसंवेदनेन वक्तुमशक्यत्वात्, नापि विशेषाणां शब्दवाच्यत्वमानन्त्यात् सङ्केतासम्भवात्, किन्तूभयात्मकं वस्तु गुणप्रधानभावेन शब्दवाच्यम्, तच्चार्थपर्यायरूपमेवेति कुतस्तद्विलक्षणव्यञ्जनपर्यायसिद्धिर्यदपेक्षया
।
त्वमिदानीमुपपादयितुमिष्टमिति बोध्यम् । सामान्यस्य शब्दवाच्यत्वतो व्यञ्जनपर्यायत्वमसहमानस्याशङ्कामुत्थाप्य प्रतिक्षिपति - न चेति - अस्य 'शङ्कनीयम्' इत्युत्तरेण सम्बन्धः, दोहन- वाहनाऽऽनयन-जलाहरणादिक्रियायोगित्वाच्छब्दव्यवहारयोग्या व्यक्तय एव शब्दवाच्याः, न तु तादृशक्रियाऽसमर्थं सामान्यं शब्दवाच्यम् तस्य तथात्वे शब्दात् प्रवृत्तिरेव न स्यादित्याह - शब्दादप्रवृत्तिप्रसक्तेरिति । पूर्वं शब्दात् सामान्यं प्रत्येति ततस्तस्यानयनादिक्रियान्वयानुपपत्तिं प्रतिसन्धाय लक्षणया विशेषप्रतिपत्तिः, अथवा यत्र सामान्यं तत्रावश्यं कश्चिद् विशेष इत्येवं व्याप्तिप्रतिसन्धानेन सामान्यविषयकत्वं यत्किञ्चिद्विशेषविषयकत्वमन्तरेणानुपपन्नमित्येवमन्यथानुपपत्तिप्रतिसन्धानेन वा विशेषप्रतिपत्तिः, ततश्च प्रवृत्तिरित्येवमुपगमोऽपि तदा शोभेत यद्युक्तदिशा क्रमप्रतीतिः संवेद्येत, न चैवमित्याह - सामान्यप्रतिपादनद्वारेति । 'प्रतिपत्तेश्च' इत्यस्य 'वक्तुमशक्यत्वाद्' इत्यनेनान्वयः । तत्र हेतु :- क्रमप्रतिपत्तेरसंवेदनेनेति - पूर्वं सामान्यप्रतीतिस्ततो विशेषप्रतीतिरित्येवमननुभूयमानत्वेनेत्यर्थः । आनन्त्यतो विशेषेष्वशेषेषु सङ्केतासम्भवेन यत्किञ्चिद्विशेषे न सङ्केताभ्युपगमे यत्र विशेषे न सङ्केतग्रहस्तस्य शाब्दबोधाविषयत्वतः प्रवृत्तिविषयत्वं न स्यादिति विशेषाणामपि न शब्दवाच्यत्वमित्याह-नापि विशेषाणामिति । तर्हि किंशब्दवाच्यमिति पृच्छतिकिन्त्विति । उत्तरयति-उभयात्मकमिति - सामान्यविशेषोभयात्मकमित्यर्थः । गुणेति-क्वचित् सामान्यान्वययोग्यपदार्थान्तरान्वयोपपत्तये विशेषस्य गुणभावः सामान्यस्य प्राधान्यम् क्वचिद् विशेषस्यैव पदार्थान्तरान्वययोग्यत्वे प्राधान्यं सामान्यस्य गुणभाव इत्येवं गुणप्रधानभावेनेत्यर्थः । तच्च सामान्य- विशेषोभयात्मकं वस्तु च तद्विलक्षणेति-अर्थपर्यायविलक्षणेत्यर्थः । अर्थपर्यायः सर्वत्र शब्दवाच्यो न भवति तथा सति तस्य सर्वत्रार्थे सद्भावादशेषस्यापि वस्तुधर्मस्य शब्दवाच्यत्वं स्यात्,