________________
तत्त्वबोधिनीविवृतिविभूषितम् २५९ सत्त्वमुच्येतेति शङ्कनीयम् , केषुचिदेवार्थधर्मेषु शब्दवाच्यतापरिणत्यभ्युपगमादाख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यानां माधुर्यविशेषादीनां बहूनामर्थधर्माणामनुभवसिद्धत्वात् , अत एव 'प्रज्ञापनीया भावा अप्रज्ञापनीयानामनन्तभाग एव' इति सिद्धान्तव्यवस्था, तेनार्थपर्यायवैलक्षण्यं व्यञ्जनपर्यायेषु नाप्रामाणिकम् , अवश्यं चैतदभ्युपगन्तव्यम् , अन्यथाऽदृष्टदशरथादीनामिदानीन्तनानां तदीयार्थपर्यायापरिज्ञानाद् दशरथादिपदाच्छाब्दबोधो न स्यादित्यधिकमनेकान्तवादप्रवेशे ।
न चैवम् , कस्यचिद् धर्मस्य शब्देनामिधातुमशक्यस्यापि सद्भावादित्यर्थपर्यायविलक्षणो व्यञ्जनपर्यायोऽवश्यमभ्युपगम्यः, यद्भावाऽभावाभ्यां शब्दवाच्यत्वाऽवाच्यत्वे सङ्गतिमञ्चतः, तथा च व्यञ्जनपर्यायस्यार्थपर्यायविलक्षणस्य सद्भावात् तस्य शब्दवाच्यत्वं समीचीनमेवेति प्रतिक्षेपहेतुमुपदर्शयति-केषुचिदेवेति । ये च शब्दवाच्यतां न प्रतिपद्यन्तेऽर्थधर्मास्ते न सन्त्येवेति वक्तुमशक्यम् , यतो दुग्ध-दधि-गुड-सिता-शर्करामध्वादीनां माधुर्यसामान्यस्याविशेषेऽप्यवान्तरमाधुर्यविशेषा अन्योऽन्यविलक्षणा अनुभूयमाना अपलपितुमशक्या अनुभूयमाना अपि ते नान्योऽन्यव्यावृत्तिप्रतिपत्तये शब्दतोऽभिधातुं शक्या इत्याह-आख्यातुमशक्यत्वेऽपीति । अत एव शब्दाप्रतिपाद्यानां बहूनामर्थधर्माणां सद्भावादेव । तेन उक्तदिशा व्यञ्जनपर्यायसद्भावेन । शब्दवाच्यतया व्यञ्जनपर्यायस्यावश्याभ्युपगन्तव्यत्वं युक्त्यन्तरेण व्यवस्थापयति-अवश्यं चेति । एतत् व्यञ्जनपर्यायस्य शब्दवाच्यत्वम् । अन्यथा व्यञ्जनपर्यायस्य शब्दवाच्यत्वमनभ्युपगम्यार्थपर्यायस्यैव शब्दवाच्यत्वाभ्युपगमे । अदृष्टेति-'दशरथादीनाम्' इत्यादिपदाद् राम-रावण-युधिष्ठिरादीनामन्ययुगीनानां भूतानां भविष्यतां चोपग्रहः, 'इदानीन्तनानाम्' इत्युक्तियुगादिव्यवहितानां न कथञ्चिदपि दर्शनसम्भव इत्यावेदनाय । तदीयेति-दशरथादिसम्बन्धीत्यर्थः, व्यञ्जनपर्यायस्तु सत्त्व-द्रव्यत्वादिनित्यत्वादिदानीमस्त्येवेति तत्परित्यागतस्तद्रूपेण दशरथादीनामपि शाब्दबोधः सम्भवेदेवेति हृदयम् । उक्तार्थविशेषाधिगतये स्वनिर्मितग्रन्थान्तरावलोकनप्रवर्तनायाह-अधिकमिति । 'सदृशाऽसदृशपर्यायाभ्याम्' इति यदुक्तं प्राक् तदुपसंहरति-तत इति-व्यञ्जनपर्यायस्य शब्दवाच्यत्वत इत्यर्थः । उक्तार्थे