________________
तत्त्वबोधिनीविवृतिविभूषितम् २५५ श्चित्संसर्गग्रहाद् वा सम्भवति, व्यञ्जननये तु तन्न सम्भवति "असतो णत्थि णिसेहो" [
] इत्यादि भाष्यकृद्वचनादुक्तविशिष्टप्रतियोगिनोऽसिद्ध्या तदभावस्याप्यसिद्धत्वात् पदार्थमर्यादया वाक्यार्थमर्यादया वा बोधयितुमशक्यत्वात् , न च स्यात्पदसमभिव्याहृतावक्तव्यपदात् प्रकृते खण्डशः शक्त्या बोधः सम्भवति, एकपदार्थयोः परस्परमन्वयबोधस्याव्युत्पन्नत्वात् , अन्यथा हरिपदादुपस्थितयोः सिंह-कृष्णयोराधाराधेयभावसम्बन्धेनान्वयबोधप्रसङ्गादिति सूक्ष्मेक्षिकामनुसरता व्यञ्जननयेन प्रकृते नब्व्यत्यासादेकपदाऽजनितप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वं स्यादवक्तव्यत्वं वाच्यम् , तच्च भङ्गद्वयार्थमादाय पर्यवस्यतीति व्यञ्जननये द्वावेव मानसोत्प्रेक्षया मानसकल्पनया उपस्थिता ये खण्डशः प्रसिद्धाः पदार्थास्तेषामन्योऽन्यमसंसर्गस्याग्रहमात्रात्, वास्तविकसंसर्गस्याभावेऽपि कथञ्चित्संसर्गस्य वैज्ञानिकसंसर्गस्य ग्रहाद् वा निरुक्तावक्तव्यत्वबोधनं सम्भवतीत्यर्थः । व्यञ्जननये तु शब्द-समभिरूडैवम्भूताख्यशब्दनये पुनः । तन्न सम्भवति निरुक्तावक्तव्यत्वबोधनं न सम्भवति । असतो० इति-"असतो नास्ति निषेधः” इति संस्कृतम्। उक्तेति-एकपदजन्यप्रातिखिकधर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वलक्षणविशिष्टप्रतियोगिनोऽप्रसिद्ध्या तदभावस्यापि निरुक्तशाब्दबोधविषयत्वाभावस्यापि, असिद्धत्वात् 'असतो नास्ति निषेधः' इति वचनप्रामाण्यात् यश्च स्वरूपत एवाप्रसिद्धः, स न पदार्थो नाऽपि वाक्यार्थ इति पदार्थविधया वाक्यार्थविधया वोक्ताभावरूपस्यावक्तव्यत्वस्य बोधयितुमशक्यत्वादित्यर्थः । यद्यप्यवक्तव्यपदात् स्यात्पदासमभिध्याहृतानोक्ताऽवक्तव्यत्वबोधः सम्भवति तथापि स्यात्पदसमभिव्याहृतादवक्तव्यपदात् प्रत्येक्तमुक्ताऽवक्तव्यत्वशरीरप्रविष्टेषु सर्वपदार्थेषु शक्तात् सर्वावक्तव्यत्वघटकपदार्थोपस्थितिबलादुक्ताऽवक्तव्यत्वबोधो भविष्यतीत्याशय प्रतिक्षिपति-न चेति-अस्य 'सम्भवति' इत्यनेनान्वयः, निषेधे हेतुमुपदर्शयति-एकपदार्थयोरिति । अन्यथा एकपदार्थयोरपि परस्परमन्वयबोधाभ्युपगमे। नव्यत्यासात् 'अविषयत्वम्' इत्यत्र स्थितस्य नञः तत्स्थानं परित्यज्य 'एकपदजन्य' इत्यत्र जन्ये समन्वयात् । तच्च "एकपदाजनित०' इत्यादिनिरुक्तस्यादवक्तव्यत्वं च । भङ्गद्वयार्थ एकवाक्यतापन्न