________________
अनेकान्तब्यवस्थाप्रकरणम् ]
प्रमेयमित्यपूर्वप्रमेयस्वभावः, उक्तं च" इदानीन्तनमस्तित्वं, नहि पूर्वधिया गतम् ॥"
] इति । न च पूर्वापरकालसम्बन्धिद्रव्यस्यैकत्वात् कालस्य चातीन्द्रियत्वान्न प्रमेयातिरेक इति वाच्यम् , तथापि प्रत्यभिज्ञातार्थे सन्देहाभावेन तत्प्रामाण्य सिद्धेः, विषयातिरेकस्येव सन्देहापाकरणस्यापि प्रामाण्यांनबन्धनत्वात् , न च सविकल्पमेव प्रत्यभिज्ञानम् , अविकल्पस्यापि तस्य दर्शनात् , प्रथमप्रत्ययाभिन्न विषयाकारात्रुटय उक्तं चेति-'सोऽयं घटः' इति प्रत्यभिज्ञायां पूर्वकालीन वर्तमानकालीनयोरभेदो विषय इति पूर्वकालीनघटास्तित्वं पूर्वानुभवविषय इति तदेव स्मदणविषयः, इदानीन्तनमस्तित्वं च घटस्य न पूर्नानुभवविषय इति तन्न स्मरणविषय इति पूर्वधियाऽनधिगतस्येदानीन्तना. स्तित्वस्याऽवगाहित्वात् प्रत्याभिज्ञायामपूर्वार्थविज्ञानत्वमित्याशयः । ननु पूर्वापरकालीनं द्रव्यं यत् प्रत्यभिज्ञानस्य विषयस्तस्यैकस्य पूर्वानुभवविषयत्वेन नापूर्वत्वम् . क्षणलक्षणकालस्त्वतीन्द्रियत्वान्न प्रत्यक्षात्मकप्रत्यभिशाविषय इति नापूर्वप्रमेयसद्भाव इत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेनान्वयः । यज्ज्ञानं संशयमपाकरोति तत् प्रमाणमिति व्यवस्थितेः 'सोऽयं घटः' इति प्रत्यभिज्ञाने सति 'सोऽयं नवा' इत्यादिसंशयो विच्छिद्यत इति संशयनिवर्तकत्वेनाऽनधिगतार्थविषयकत्वाभावेऽपि प्रत्यभिज्ञायाः प्रामाण्यं स्यादेवेति प्रतिक्षेपहेतुमुपदर्शयति-तथाऽपीति-अपूर्वप्रमेयाभावे. ऽपीत्यथः। तत्प्रामाण्यसिद्धेः प्रत्यभिज्ञाप्रामाण्यसिद्धेः । ननु बौद्धेन सविकल्पकज्ञानं प्रमाणतया नेष्यत इति तं प्रति सविकल्पकप्रत्यक्षरूपस्य प्रत्यभिज्ञानस्य क्षणक्षयित्वबाधकतयोपदर्शनं न युक्तमि. त्याशङ्कां प्रतिक्षिपति-न चेति-प्रत्यभिज्ञानं सविकल्पकमेव न निर्विकल्पकमिति नियमो न चेत्यर्थः। तत्र हेतुः-अविकल्पस्यापीति-निर्वि