________________
तत्त्वबोधिनीविवृतिविभूषितम् ३४१ सामान्यरूपतयाप्यन्यव्यवच्छेदेन सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वाद् , अविभक्तसर्वज्ञश्रद्धानस्य चापुनर्बन्धकादिसम्भवित्वेन सम्यग्दर्शनानियामकत्वात् , नन्वेवमागमविरोधः सामायिकमात्रपदविन्माषतुषादेयथोक्तचारित्रिणस्तस्य मुक्तिप्रतिपादनात्, सकलशास्त्रार्थज्ञताविकलस्य व्रताद्याचरणनैरर्थक्यापत्तेश्च, तत्साध्यफलानवाप्तेः, न च यथोपदर्शितचरणकरणे सम्यग्दर्शनवैकल्ये सम्भवतो ज्ञानादित्रितयस्यापि तत्र पाठादिति, मैवम् ये यथोदितचरण-करणप्ररूपणा-ऽऽसेवनद्वारेण प्रधानादाचार्यात् स्वसमय-परसमयमुक्तव्यापारा न भवन्तीति नमोऽत्र सम्बन्धात् ते चरणकरणसारं निश्चयशुद्धं जानन्त्येव, गुर्वाज्ञया प्रवृत्तेः, चरणगुणस्थितस्य साधोः सर्वनयविशुद्धतयाभ्युपगमात् , “तं सव्वणयविसुद्ध" [ ] इत्याद्यागमप्रामाण्यात् । अगीतार्थस्यापि
शङ्कार्थो व्यक्त एव, समाधत्ते-नेति । तदभिहितभावनां जिनोक्तपदार्थानाम् । उक्तदिशा स्वसमय-परसमयानभिज्ञस्य सम्यग्दर्शनानभ्युपगमे आगमविरोधमाशङ्कते-- नन्वेवमिति । तत्साध्येति-व्रताद्याचरणसाध्येत्यर्थः । 'न च' इत्यस्य 'सम्भवतः' इत्यनेनान्वयः । तत्र चरणस्वरूपप्ररूपके 'वय-समणे०' इत्यादिवचने 'नाणाइतियम्' इति पाठात् । प्रतिक्षिपति-मैवमिति । 'चरणकदणप्पहाणा' इति न प्रथमाविभक्त्यन्तं किन्तु पञ्चम्यन्तम् , तथा च चरण-करणप्रधानादिति शब्दस्वरूपमाश्रित्यार्थमाचष्टे-ये यथोदितेति-'ये' इत्यस्य 'न भवन्ति' इत्यत्रान्वयः, यथोदिते येन प्रकारेण पूर्व कथिते ये चरण-करणे, तयोः प्ररूपणं निरूपणमासेवनमाचरणं च, तदुभयद्वारेण तदुभयसम्पत्त्या, प्रधानोऽन्येभ्यो विशिष्टो य आचार्यस्तस्माचरणकरणप्रधानात् , स्वसमयपरसमयमुक्तव्यापारा न भवन्ति, अर्थात् खसमय-परसमयाभिज्ञा एव भवन्ति ये, 'न जानन्ति' इत्यग्रे स्थितस्य नमोऽत्र 'मुक्तव्यापाराः' इत्यत्र, सम्बन्धात् समभिव्याहारात्, ते स्वसमय-परसमयामुक्तव्यापाराश्चरणकरणसारं निश्चयशुद्धं जानन्त्येव, तत्र हेतुः-गुर्वाज्ञया प्रवृत्तेरिति । तत्पारतन्त्रयस्यैव