________________
३४०
अनेकान्तव्यवस्थाप्रकरणम् ।
पयोगात्मकं निष्कलङ्कम् न जानन्ति - नानुभवन्ति, ज्ञान-दर्शनचारित्रात्मक कारणप्रभवत्वात् तस्य, कारणाऽभावे च कार्यस्यासम्भवात्, अन्यथा तस्य निर्हेतुकत्वापत्तेः, करण-चरणयोश्च चारित्रात्मकत्वाद्, द्रव्य-पर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावात्, अथवा चरण-करणयोः सारं निश्चयेन शुद्धं सम्यग्दर्शनं ते न जानन्ति, न हि यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तद्रुचिः, न च स्वसमय पर समयतात्पर्यार्थावगमे तदवबोधो वोटिकादेखि सम्भवी । अथ जीवादिद्रव्यार्थ - पर्यायार्थापरिज्ञानेऽपि यदर्हद्भिरुक्तं तदेवैकं सत्यमित्येतावतैव सम्यग्दर्शनसद्भावः — “भण्णइ तमेव सच्चं णिस्संकं जं जिणेहिं पण्णत्तं " ] इत्याद्यागमप्रामाण्यात्, न - स्वसमय पर समय परमार्थानभिज्ञैर्निरावरणज्ञानदर्शनात्मकजिनस्वरूपाज्ञानवद्भिस्तदभिहितभावानां
[
।
तदनुभवनं भवेत्, स्वसमय पर समयमुक्तव्यापाराणां च तथाविधज्ञानादिलक्षणकारणाभावान्न तत्सम्भव इत्याह-ज्ञान- दर्शनेति । तस्य निष्फलकज्ञानदर्शनोपयोगात्मकफलस्य । अन्यथा ज्ञानाद्यात्मक कारणाभावेऽपि निरुक्तफलानुभवाभ्युपगमे । तस्येति-निरुक्तफलानुभवस्येत्यर्थः । कथं न तेषु निरुक्तकारणसद्भाव इत्यपेक्षायामाह - चरणकरणयोश्चेति । स्यातां नाम चरण करणे चारित्रात्मके ते एव तेषु किं न भवत इत्यापेक्षायामाह - द्रव्य - पर्यायात्मकेति । अभावात् चारित्रात्मकचरण- करणयोरभावात्, तथाभूतचारित्रं प्रति निरुक्तरुच्यात्मकसम्यग्दर्शनस्य कारणत्वादित्यभिसन्धिः। प्रकारान्तरेणोत्तरार्द्ध विवृणोति - अथवेति । 'निश्चयशुद्धम्' इत्यत्र तृतीयातत्पुरुष एव समास इत्याह- निश्चयेन शुद्धमिति । ते स्वसमयपर समयमुक्तव्यापाराः । न जानन्ति' इत्यत्र हेतुमुपदर्शयति-नहीति - अस्य 'तद्रुचिः' इत्यत्रान्वयः, 'तदुचिः' इत्यस्य ‘यथावस्थिततत्त्वश्रद्धानम्' इत्यर्थः । तदवबोधः यथावस्थितवस्तुतत्त्वावबोधः । बोटिकादेवि दिगम्बरादेरिव । 'सम्भवि' इत्यत्र 'न च' इत्यन्वेति । शङ्कते - अथेति । भण्ण० इति “भण्यते तदेव सत्यं निश्शङ्कं यज्जिनैः प्रज्ञप्तम्” इति संस्कृतम् ।
wwwww