________________
तत्त्वबोधिनीविवृतिविभूषितम् ३४७ तपस्वी वेदान्ती वदतु वदनेनाद्वयकथा
मनेकान्तं कान्तं स्मरति हृदयेन त्वविकलम् ॥६॥ प्रमाणं नीलादौ क्षणपरिचयादौ च न तथा,
वदन्नेकं ज्ञानं सुगततनयश्चित्रमपि च । अनेकान्तं स्वान्ते स्मरति यदि नो तन्निजमतग्रहावेशक्लेशः क्षपयति तदीयं गुणगणम् ॥ ७॥
हृतिवशात् 'अयं जीवोऽयमीश्वरः' इत्यादिव्यवहारबलात्, बद्धम् अन्तःकरणावच्छिन्नं चैतन्यं जीवः, मायावच्छिन्नं चैतन्यमीश्वर इत्येवमन्तःकरण-मायादिरूपोपाधिविशिष्टम् , उपयन् अभ्युपगच्छत् , तथा जगदपि व्यष्टया घट-पटादिव्यासरूपेण, समष्ट्या ब्रह्माण्डलक्षणैकस्वरूपेण च, विविधम् एकानेकखरूपमुपयन् , तपखी युक्तिदरिद्रः प्रामाणिकानां कृपापात्रम् , वेदान्ती ब्रह्मसूत्रसूत्रणसूत्रधारव्यासानुयायी; वदनेन वदनमात्रेण न तु युक्त्या, अद्वयकथाम् अद्वैतवादं, वदतु कथयतु, तु पुनः, हृदयेन अन्तःकरणेन, अविकलं सम्पूर्णम् , कान्तं युक्तिसुन्दरम् , अनेकान्तम् अनेकान्तवादं स्मरति, तथा च ब्रह्म बद्धमबद्धं जगव्यष्टिरूपत्वादनेकं समष्टिरूपत्वादेकमित्यनेकान्तमेव वेदान्त्यभ्युपगच्छतीति निर्गलितोऽर्थः ॥ ६ ॥
बौद्धस्यापि क्षणिकैकान्तवादिनोऽनेकान्ताभ्युपगन्तृत्वं प्रकटयति-प्रमाणमितिएकं ज्ञानं नीलादौ प्रमाणम् , च पुनः क्षणपरिचयादौ क्षणिकत्वादी, आदिपदात् स्वर्गप्रापणशक्तयादेरुपग्रहः, न तथा न प्रमाणम् , एवं 'नील-पीतें' इति समूहालम्बनं ज्ञानं नीलाद्याकारमपि, चित्रमपि चित्राकारमपि, इत्थं वदन् सुगततनयो बौद्धो यदि, स्वान्ते अन्तःकरणे, अनेकान्तं नो स्मरति, तत् तदा, निजमतग्रहावेशक्लेशः निजमतस्य स्वकीयैकान्तक्षणिकत्वाभ्युपगमलक्षणस्य कदाग्रहरूपो यो ग्रहः पिशाचादिस्तस्य यः स्वान्तःकरणे, आवेशः प्रवेशस्ततो यः क्लेशः-आपाततः खमतव्यवस्थापककुयुक्तिनिकरान्वेषणायासः स, तदीयं बौद्धसम्बन्धिनं, गुणगणं सूक्ष्मबुद्धिवैभवादिरूपं, क्षपयति विनाशयति, ततः स्वकीयं गुणगणं परिपालयता बौद्धनानेकान्ताभ्युपगमोऽवश्यमेव विधेय इत्यर्थः ॥ ७ ॥