________________
'wwwww
अनेकान्तव्यवस्थाप्रकरणम् । घटे चित्रं रूपं पृथगपि च नीलादिकमपि,
ब्रुवाणी हेतुं वाऽप्यजनकमपीष्टान्यविधया। अनेकान्तं छेत्तुं बत कथमुभौ योग-कणभुक्तनूजौ स्वारूढद्रुमविटपतुल्यं प्रभवतः ॥ ८॥
परोक्षं मेयांशे किमपि म(मि)ति-मात्रंशविषयेऽपरोक्षं चैकं यः प्रभणति गुरुर्मानमवशः।
परोऽपि द्वैरूप्यं जगति कलयन् जैमिनिसुतः,
कुतः स्याद्वादं यः स्पृहयति न रुच्याऽर्थविमुखः ॥९॥ नैयायिक-वैशेषिकयोरपि स्याद्वादाभ्युपगन्तृत्वं समर्थयति- घटे चित्रमितिपृथगपि शुक्ल-नीलादिरूपेभ्यो भिन्नमपि, चित्रं कर्बुरं रूपम् , च पुनः, नीलादिकं रूपं घटे एकस्मिन् ,ब्रुवाणी कथयन्तौ, वा अथवा, हेतुमपि दण्डत्वादिना घटादिकारणमपि दण्डादिकम् , कारणतावच्छेदकतयेष्टमभिमतं यद् दण्डत्वादिकं तदन्यद् यद् द्रव्यत्वादिकं तद्विधया तद्रूपेग, अजनकमपि घटाद्यकारणमपि, ‘ब्रुवाणी' इत्यस्यात्रापि सम्बन्धः, इत्थं ब्रुवाणावुभौ योगकणभुक्तनूजी नैयायिकवैशेषिकौ, 'बत' इत्याश्चर्ये, स्वारूढद्रमविटपतुल्यं स्वकर्तृकारोहणक्रियाकर्मीभूतवृक्षशाखासदृशम् , अनेकान्तम् स्याद्वादं कथं छेत्तुं प्रभवतः ? यथा स्वारूढवृक्षशाखाछेदनं स्वस्यैवाधःपतनात्मकमनिष्टं तथा स्वाभ्युपगतानेकान्तापाकरणे स्वस्यैव पराजय इत्यर्थः ॥ ८ ॥
मीमांसकस्यापि स्याद्वादाभ्युपगन्तृत्वं प्रकटयति-परोक्षमिति-गुरुः प्रभाकरनामा मीमांसकः, एकं ज्ञानं स्वरूपत एकमेव ज्ञानं किमपि अनुमित्यादिरूपम् , न तु सर्व प्रत्यक्षज्ञानस्य सर्वांश एव प्रत्यक्षरूपत्वात् , मेयांशे बाह्यग्राह्यांशे, परोक्षं परीक्षात्मकम् , मिति-मात्रंशविषये मितिर्ज्ञानं स्वस्वरूपं तन्मते सर्वस्य ज्ञानस्य प्रमारूपत्वमेव भ्रमस्याभावात् , भ्रमस्थले 'इदम्' इति ज्ञानं प्रत्यक्षं 'रजतम्' इति ज्ञानं स्मरणम् , तयोर्भदाग्रहनिबन्धनमैक्यव्यवहारः, प्रवृत्तिश्च तत्र तद्विषययोर्भेदाग्रहादेव, तथा च मित्यंशविषये ज्ञानस्वरूपांशविषये मात्रंशविषये प्रमात्रंशविषये च तदेवानुमित्यादिज्ञानम् , अपरोक्षं प्रत्यक्षात्मकमित्येवं, प्रभणति प्रकर्षेण वक्ति, यतोऽयम् अवशः अतीन्द्रियज्ञानवादिस्वगुरुकुमारिलभट्टपराधीनत्वाभावात् स्वतन्त्रः,
www