________________
३४६
अनेकान्तव्यवस्थाप्रकरणम् । विरुद्धैः सत्त्वाद्यैरिह बहुगुणैर्गुम्फिततर्नु,
प्रधानं यो वाञ्छत्यखिलजगतः सर्गनिपुणम् । अनेकान्तं सांख्यः स कथमवमन्येत विलसेत्,
प्रमाणाक्षक्रीडारसिकहृदयश्चेत् परिषदि ॥५॥ अबद्धं तत्त्वेन व्यवहृतिवशाद् बद्धमुपयन् ,
परं ब्रह्म व्यष्ट्या जगदपि समष्ट्या च विविधम् । सर्वतैर्थिकानां स्याद्वादाभ्युपगन्तृत्वं समस्तीति प्रतिपादयितुं प्रथमतः साङ्ख्यस्य स्याद्वादाभ्युपगन्तृत्वं प्रतिपादयति-विरुद्धैरिति-यः साङ्ख्यः, इह वस्तुतत्त्वनिरूपणे, विरुद्धैः परस्परविरुद्धैः, “सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥” [ ] इति वचनाल्लघुत्व-प्रकाशकत्व. धर्मयोगि सत्त्वम् , उपष्टम्भकत्व-चलत्वधर्मयोगि रजः, गुरुत्वा-ऽऽवरणकत्वधर्मयोगि तमः, इत्येवं परस्परविरुद्धताऽवसेया, सत्त्वाद्यैः सत्त्व-रजस्तमोभिः, बहु. गुणैः त्रित्वात्मकबहुत्वसंख्याविशिष्टगुणैः, गुम्फिततनुं व्याप्तशरीरं त्रिगुणमयमिति यावत् , अखिलजगतः सर्गनिपुणं निखिलजगदाविर्भावकारणम् , तन्मते उत्पत्तिलक्षणसर्गस्याविर्भावरूपत्वात् , एवम्भूतं प्रधानं प्रकृतिमभ्युपगच्छति, अत्र प्रधानमित्येकवचनान्तप्रधानपदेनैकत्वसंख्याविशिष्टप्रधानं प्रतिपाद्यमभिमतम्, तथा चैकरूपमनेकरूपं च प्रधानमेकमपि सदनेककार्यकारित्वतोऽनेकस्वभावमित्यनेकान्तात्मकमेव प्रधानं साङ्ख्याभ्युपगतं भवतीति, स इत्थमनेकान्तात्मकप्रधानाभ्युपगन्ता साङ्ख्यः कापिलदर्शनानुगामी, चेत् यदि, परिषदि सभायां प्रमाणाक्षक्रीडारसिकहृदयः प्रमाणान्येवाक्षाः, तैः क्रीडनम, प्रमाणव्यवहरणात्मकाक्षक्रीडने द्यूते रसिकमुत्सुकं तत्प्रवणमिति यावत् , हृदयमन्तःकरणं यस्य स प्रमाणाक्षक्रीडारसिकहृदयः, एवम्भूतः सन् विलसेत् तदा कथमनेकान्तमवमन्येत, येन प्रमाणेनानेकान्तं प्रधानं सिध्येत् तेन प्रमाणेन वस्तुमात्रमप्यनेकान्तं सिद्ध्येदेव, प्रधानं वा दृष्टान्तीकृत्य वस्तुत्व-प्रमेयत्वादिहेतुनाऽशेषस्यैव जगतोऽनेकान्तत्वं सिध्येत् , एवमपि यद्यनेकान्तं स नाभ्युपेयात् प्रमाणाक्षक्रीडास्पदविद्वद्गोष्ठीबहिर्भूत एव भवेदित्यभिसन्धिः ॥ ५॥
वेदान्तिनोऽप्यद्वैतवादिनोऽनेकान्तत्वाभ्युपगन्तृत्वं दर्शयति-अबद्धमिति-परं ब्रह्म शुद्धचैतन्यम् , तत्त्वेन परमार्थतः, अबद्धं मायालक्षणबन्धनरहितम् , व्यव