________________
तत्त्वबोधिनीविवृतिविभूषितम् ३४५ अनेकान्तं वादं यदि सकलनिर्वाहकुशलं,
मतानि स्पर्धन्ते नयलवसमुत्थानि बहुधा । तदा किं नो भावी बहुलकलिकौतूहलवशाद्,
घटानां निर्मातुत्रिभुवनविधातुश्च कलहः॥३॥ मिथो द्वारा युध्यन्ते महिषसदृशा ये परनयाः,
प्रयातारः खेदं त इह बहुधा जर्जरतराः। अनेकान्तो द्रष्टा पुनरवनिपालः प्रकृतितः,
परावृत्तिं नैभ्यो व्रजति परिपूर्णाभिलषितः॥४॥ अनेकान्तमिति-यदि सकल निर्वाहकुशलं सकललोकयात्रासमर्थननिपुणम् , अनेकान्तवादम्, नयलवसमुत्थानि नयैकदेशसमाश्रयणसञ्जातानि, मतानि एकान्तवादिदर्शनानि, बहुधा स्पर्धन्ते यथा स्याद्वादस्तत्त्वावबोधनैपुण्यं बिभर्ति तथा वयमपि तत्त्वावबोधनसमर्था नास्मानतिशेते स्याद्वादः' इत्येवं बहुधा-बहुप्रकारेण, स्पर्धन्ते-स्पर्धा कुर्वन्ति, तदा तर्हि, बहुलं बहुप्रकारं यत् कलिकौतूहलं तद्वशाद् घटानां निर्मातुः कुलालस्य, त्रिभुवनविधातुः त्रिभुवननिर्माणदक्षस्य जगत्कर्तुरीश्वरस्य, एतच्च पराभ्युपगतं समाश्रित्य, कलहः 'अहं त्वत्तोऽवरोऽहं त्वत्तो वरः, इत्यादिरूपः कलिः, किं नो भावी किं न स्यात् , अपि तु स्यादेव, त्रिभुवनविधातुः कुम्भकर्तुश्च यावान् विशेषस्तावान् अनेकान्तवादैकान्तवादयोर्विशेष इति हृदयम् ॥३॥
मिथ इति-महिषसदृशाः असमीक्ष्यकारिस्वाभाव्याः परस्परं योद्धुमेव व्यवसिता यथा महिषास्तथा विवादफलमनादृत्य परस्परं वादाख्ययुद्धं कामयमाना एकान्तवादिनो ये परनया, द्राग् झटिति, मिथो युध्यन्ते ते वादिनः, इह कथायां बहुधा बहुप्रकारेण परयुक्तिसमष्टिप्रहारव्याहतस्वयुक्तिस्तोमशरीरत्वाजर्जरतराः सन्तः खेदं पराजयलक्षणदुःखं प्रयातारः, यथा महिषाः परस्परं युद्धं कुर्वाणा जर्जरशरीरतामुपगताः सन्तो दुःखमेव भजन्ते, न तु किमप्यभिलषितं फलमासादयन्ति तथा परनया अपीत्यर्थः, पुनः, इत्थं विवदमानानां परनयानां द्रष्टा उपेक्ष्यदृष्ट्या 'किमपीदमज्ञानविजृम्भितं कौतुकम्' इत्येवं प्रेक्षकोऽनेकान्तः परिपूर्णाभिलषितः सन् , एभ्यः परस्परं विवदमानेभ्यः परेभ्यः, प्रकृतितः स्वस्वभावात् , परावृत्तिम् अन्यथाभावं, न व्रजति न याति अत एव अवनिपालः अवनिपाल इव, यथा राजा परस्परं विवदमानानां महिषसदृशानां मूढानां स्वराज्यसंस्थितानां द्रष्टा न तेभ्यः प्रकृतितो राजस्वभावात् परावृत्तिं यथा तथेत्यर्थः ॥ ४ ॥