________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ५५
दृश्यमानस्य पूर्व देशादिपरिगतत्वं तदा पूर्वदेशाद्यसन्निधाने तत्प्रतिभासासम्भवात्, प्रातिभासिकसन्निधानाभ्युपगमेऽपि तद्वर्तमानतापत्तेः, नहि तद्दर्शनप्रतिभास मन्तरेणान्या वर्तमानता नीलादीनामपि, तथापि पूर्वरूपत्वाप्रच्यवे वर्तमानव्यवहारोच्छेदप्रसक्तेः । यदि च दृष्टतैव दृश्यमानस्य तत्त्वम्, तदापि तस्याः साम्प्रतिदर्शने
' सोऽयम्' इति प्रत्यभिज्ञाने वर्तमानकालीनस्येदमर्थस्य तत्त्वं यत् प्रतिभासते तद् यदि पूर्वदेशादिपरिगतत्वरूपं तदा पूर्वदेशादीनामसन्निहितानामप्रतिभासने तत्परिगतत्वरूपस्य तत्त्वस्याऽपि प्रतिभासनं न भवेदित्याह - तत्वं यदीति । तत्प्रतिभासासम्भवात् पूर्वदेशादि - परिगतत्वरूपस्य तत्त्वस्य प्रतिभासा सम्भवाद् विशेषणाग्रहणे विशिष्टस्याऽप्यग्रहणात् । पूर्वदेशादेरपि तदानीं प्रतिभासमानत्वात् प्रातिभासिकसन्निधानमस्त्येवेति ययुपेयते तर्हि यद् यदा प्रतिभासते तत् तदानीं वर्तमानमिति प्रातिभासिकसन्निधानवतः पूर्वदेशादेर्वर्तमानत्वं प्रसज्येतेत्याह – प्रातिभासिकेति । तद्वर्तमानत्वापत्तेः पूर्वदेशादिगतवर्तमानत्वप्रसङ्गात् । अन्यत्रापि तद्दर्शनप्रतिभासत्वमेव वर्तमानत्वम्, तच्च प्रकृतेऽपि समस्तीत्याह -नहीति । तथापि प्रातिभासिक सन्निधानेन वर्तमानत्वे सत्यपि । यत्रातीतत्वं न तत्र वर्तमानत्वमिति नियमात् पूर्वरूपत्वाप्रच्यवेऽतीतत्वस्यैव भाने तद्दर्शनप्रतिभासस्य वर्तमानव्यवहाराप्रयोजकत्वाद् वर्तमानव्यवहारस्य निबन्धनान्तराभावेनोच्छेद प्रसङ्गादित्यर्थः । तदापि दृष्टतायास्तत्स्वरूपत्वेऽपि । तस्याः दृष्टतायाः, तथा च तत्त्वमपि वर्तमानत्वमिदन्त्वं तु सर्वानुमतमेव वर्तमानत्वमित्येक वर्तमानप्रतिभासित्वमेव प्रत्यभिज्ञानस्य, न तु पूर्वापरद्दगवगतयोरेकत्वस्य प्रतिभासित्वमिति तत्प्रत्यभिज्ञानाऽभावात् पूर्वापरडगवगतैकस्वक्षतेरित्यर्थः । तत्त्वात्मतयोपगताया दृष्टतायाः पूर्वदर्शन एव भानाभ्युपगमे पूर्व