________________
५४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् नाऽपि प्रामाण्यं व्यवतिष्ठेत । किञ्च, पूर्वापरसंवेदनाधिगतभावकत्वग्राहकं प्रत्यभिज्ञानं कथमध्यक्षस्वरूपम् ? प्रथमसंविदोऽसत्यास्तत्र ग्रहणासम्भवात् , अन्यथा भाविसमयादिग्रहणस्यापि प्रसङ्गात् ,भाविकालाद्यग्रहेऽपि तत्सम्बन्धिरूपग्रहाभ्युपगमे आद्यमृद्दर्शनवेलायामेव त्रैकाल्यस्पर्शिस्थास-कुशूलादिसकलव्यक्तिग्रहणप्रसङ्गात् । यदेवोत्तरकालं परामृश्यते तदेव भाविज्ञानविषयीभावस्तु प्रागवगम्यत इति नियमकल्पनान्न दोष इति चेत् ? न-तत्त्वं यदि तस्य न स्यात् , अतीतसंवेदनविषयकत्वमपि यदि प्रत्यभिज्ञाप्रत्यक्षे स्वीक्रियते तर्हि भाविसमयादिग्राहित्वमपि प्रत्यक्षस्य प्रसज्येतेति नोक्तप्रत्यभिज्ञानस्य प्रत्यक्षत्वमभ्युपगन्तुं युक्तमित्याह-किश्चेति । तत्र अध्यक्षरूपे प्रत्यभिज्ञाने। अन्यथा तदानीमसतोऽपि प्रत्यक्षेण ग्रहणाभ्युपगमे । ननु प्रथमसंविदो भाविसंविदश्च तदानीमसत्यायाः प्रत्यक्षप्रत्यभिज्ञानेन ग्रहणाभावेऽपि तत्सम्बन्ध्रिनस्तद्विषयस्य तेन ग्रहणं स्यादित्यत आह-भावीति । ‘भाविकालादि' इत्यादिपदादतीतकालादेरुपग्रहः। तत्सम्बन्धीति-भाविकालादिसम्बन्धीत्यर्थः । आयेतियदा मृदर्शनं भवति तदानीमेव तदर्शनभासमानाया मृदो ये सम्बन्धिनः स्थासकुशूलादयः केचित् पूर्वकालमेव जाताः केचित् तदानीमेव सम्भविनः केचित् पुनरुत्तरकाले भविष्यन्तीत्येवं त्रैकाल्यस्पर्शिमस्तेषामतीताऽनागतकालाद्यग्रहणेऽपि तत्सम्बन्धिनां ग्रहणप्रसङ्गादित्यर्थः। मृद्दर्शनवेलायां तत्सम्बन्धिनामतीताऽनागतादिकालीनानां ग्रहणं तदाऽवकल्प्येत यधुत्तरकालं तेषां परामर्शो भवेत् , येषामेवोत्तरकालं परामर्शस्तेषामेव भाविज्ञानविषयीभावः पूर्वमवगम्यत इति नियमः परिकल्प्यत इति न सर्वस्याऽतीतानागतकालसम्बन्धिनो ग्रहणप्रसङ्ग इत्याशङ्कते-यदेवेति । तदेव' इति स्थाने 'तस्यैव' इति पाठो युक्तः। प्रतिक्षिपति-नेति ।