________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[५३ ___यत् तु-" इदानीन्तनमस्तित्वं, न हि पूर्वधिया गतम् ।” इत्युक्तम् , तद् युक्तमेव-इदानीन्तनास्तित्वस्य प्राकालीनास्तित्वतो भेदात् , अन्यथा प्राक्तनविकल्पबुद्धया वस्त्वव्यतिरेकीदानीन्तनास्तित्वस्य कथमग्रहणम् । यैस्तु निर्विकल्पकं प्रत्यभिज्ञाज्ञानं प्रमाणतयाऽभ्युपगतम् , तेषां तदुत्तरकालभाविसविकल्पकादयो घटादिविषयाः प्रमेयातिरेकाभावात् कथं प्रमाणतामश्नुवीरन् ? नहि निर्विकल्पक-सविकल्पकयोरन्तराले सन्देहसम्भवोऽपि येन तदपाकरणेविषय इति यत् पूर्वप्रत्यक्षाऽविषयत्वोपवर्णनं तदिष्टमेवास्माकमपि. न तु ततो मीमांसकस्याभीष्टसिद्धिरित्याह-यत्त्विति । इदानीन्तनास्तित्वस्य प्राकालीनास्तित्वलक्षणपूर्वानुभवविषयाद् भिन्नत्वेन पूर्वधियाऽनधिगतत्वमित्याह-इदानीन्तनास्तित्वस्येति । अन्यथा इदानीन्तनास्तित्वस्य प्राक्कालीनास्तित्वतो भेदाभावे । प्राक्तनेति-प्राक्काले वस्त्वनुभवजन्यविकल्पेन घस्तुनो ग्रहणे तदव्यतिरेकात् प्राक्तनास्तित्वस्य ग्रहणवदिदानीन्तनास्तित्वस्य ग्रहणमेव प्रसज्यत इत्यर्थः। निर्विकल्पकप्रत्यभिज्ञानमभ्युपेत्य तस्यकत्वावगाहित्वेन तत्र प्रामाण्यस्याभ्युपगमे तदनन्तरभाविनां सविकल्पादीनां तद्गृहीतग्राहित्वेनापूर्वप्रमेयाभावात् प्रामाण्याभावः प्रसज्येत, निर्विकल्पकस्य चाऽनन्तरमेव सविकल्पकमिति न तयोरन्तरालकालः समस्ति, येन तयोरन्तरालकाले समुद्भूतस्यैकत्वसंशयस्यापाकरणेन विकल्पबुद्धीनां प्रमेयातिरेकाभावेऽपि प्रामाण्यमातिष्ठेतापीत्याहयस्त्विति-अस्य ' अभ्युपगतम्' इत्यनेनान्वयः । तेषां निर्विकल्पकप्रत्यभिज्ञानप्रामाण्याभ्युपगन्तृणाम् । तदुत्तरकालेति-निर्विल्पकप्रत्यभिशानोत्तरकालेत्यर्थः। पूर्वसंवेदनस्य प्रत्यभिज्ञानकालेऽभावेन प्रत्यभिज्ञानस्य प्रत्यक्षरूपत्वे पूर्वसंवेदनविषयकत्वस्य तत्राऽभावे पूर्वसंवेदनविषयेण सहोत्तरसंवेदनविषयस्य यदेकत्वं तद्विषयकत्वमपि