________________
५६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् प्रतिभानाभ्युपगमे वर्तमानतापत्तेः पूर्णपरदृगवगतकत्वक्षतेः, पूर्वदृशि तद्भानाभ्युपगमे च तस्याः प्रच्युतौ तद्ग्राह्यताया अपि प्रच्युतत्वात् । न च पूर्वदृष्टताऽप्रतिपत्तावपि पूर्वदृष्टरूपग्रतीतेन दोषः, विशेषणाऽप्रतीती विशिष्टाप्रतीतेः, नहि नीलताऽप्रतिपत्तौ नीलोऽर्थोऽधिगतो भवति, यदि च प्राग्दर्शनगोचरोऽर्थों वर्तमानदृशि तत्स्वाभाव्यादेव प्रतिभाति, तदा पूर्वदृगोचरसकलपदार्थप्रतिभासनप्रसङ्गः । अथाऽभेदस्य नियामकत्वम् , न-नीलादेर्मिनस्यापि वर्त। मानदर्शने प्रतिभासनात् , पूर्वदृष्टस्य वर्तमानदृशि सन्निधानेन दर्शनं प्रत्यभिज्ञानकाले न समस्तीति तद्ग्राह्यताया अपि तदानीमभावान्न प्रत्यभिज्ञाने तद्भानं भवेदित्यतोऽपि पूर्वापरगवर्गकत्वक्षतिरित्याह-पूर्वदृशीति-पूर्वदर्शन इत्यर्थः । तद्भानाभ्युपगमे दृष्टताभानाङ्गीकारे। तस्या पूर्वदृशः। तद्ग्राह्यताया अपि पूर्वदृग्विषयताया 'अपि । पूर्वदृष्ट इति पूर्वदृष्टतावान् , तथा च तत्र पूर्वदृष्टता विशेषणमिति तदप्रतिभासने तद्विशिष्टप्रतिभासनं शङ्कितुमप्यशक्यं विशेषणप्रतिभासे सत्येव विशिष्टप्रतिभासस्योपगमादित्याहन चेति । विशेषणाऽप्रतिपत्तौ विशिष्टप्रतिपत्तिर्न भवतीत्येव दृष्टान्तबलाद् व्यवस्थापयति-नहीति-अस्य भवति' इत्यनेनान्वयः प्राग्दशनगोचरस्यार्थस्याऽयमेव स्वभावः, यदुत, वर्तमानदृशि प्रतिभासनमिति स्वभावबलादेव पूर्वदर्शनगोचरार्थस्य वर्तमानदृशि प्रतिभासनाभ्युपगमे पूर्वदृग्गोचरस्य सकलस्याप्यर्थस्योक्तखभावषलात् प्रतिभासनं प्रसज्यत इत्याह-यदि चेति । ननु पूर्वदृष्टस्य तस्यैवार्थस्य वर्तमानदर्शने प्रतिभासनं यस्य वर्तमानहग्गोचरेदमामेद इति न सकलपूर्वदृग्गोचरार्थप्रतिभासनप्रसङ्ग इत्याशङ्कते-अथेति । एकस्मिन् वर्तमानदर्शने समूहालम्बनात्मके नील-पीतादीमामन्योऽन्यभिन्नानामपि वर्तमानदर्शने प्रतिभासनेनाऽमेदस्य वर्तमानदर्श