________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ५७
प्रतिभासनानाऽतिप्रसङ्ग इति चेत् ? न-अप्रतिभासेन सन्निधौ सर्वत्रातिप्रसङ्गात् , प्रतिभासेन च सन्निधावितरेतराश्रयात् । एतेन 'पूर्वदृष्टस्या प्रच्युतेर्वर्तमानदृशि भानम्' इत्यपास्तम्, तदप्रच्युतो प्रमाणाऽभावात् , तदवगाहिदर्शनस्यैव तत्र प्रमाणत्वेऽन्योन्याश्रयात् , पूवर्दृष्टस्याऽप्रच्युतौ प्रवर्तमानं दर्शनं प्रमाण सिद्धयति, तत्प्रामाण्यसिद्धौ च पूर्वदृष्टस्याप्रच्युतिरिति । न च परिस्फुटनप्रतिभासनप्रयोजकताया वक्तुमशक्यत्वादिति समाधत्ते-नेति । ननु पूर्वदृग्गोचरोऽर्थो वर्तमानदर्शनकाले सन्निहित इति प्रतिभासते, यस्तु पूर्वदृग्गोचरोऽपि न सन्निहितो न तस्य वर्तमानदर्शने प्रतिभासनमित्याशङ्कते-पूर्वदृष्टस्येति । अत्र पूर्वदृष्टस्य सान्निध्यमप्रतिभासनतो विवक्षितम् ? प्रतिभासनतो वा ? आये-तत्प्रतिभास्यतया विवक्षितपूर्वदृष्टस्येवान्यस्याप्यप्रतिभासनतः सान्निध्यस्य सम्भवेनाऽशेषपूर्वदृष्टप्रतिभासनलक्षणातिप्रसङ्गस्तदवस्थः, द्वितीये-प्रतिभासनबलात् सान्निध्यस्याभिमतत्वे तु प्रतिभासने सति सान्निभ्यम् , सान्निध्ये सति च प्रतिभासनमित्येवमन्योन्याश्रय इति समाधत्ते-नेति । 'एतेन' इत्यस्य 'अपास्तम्' इत्यनेनाऽन्वयः । एतेन' इत्यनेनाभिमतमेव हेतुं दर्शयति-तदप्रच्युताविति-पूर्वदृष्टस्याऽप्रच्युतावित्यर्थः। पूर्वदृष्टावगाहिवर्तमानदर्शनं पूर्वदृष्टाऽप्रच्युतौ प्रमाणमिति 'प्रमाणाभावाद्' इति हेतुरसिद्ध इत्यप्यन्योऽन्याश्रयान्न युक्त इत्याहतदवगाहिदर्शनस्यैवेति-पूर्वदृष्टावगाहिवर्तमानदर्शनस्यैवेत्यर्थः । तत्र पूर्वदृष्टाऽप्रच्युतौ। अन्योऽन्याश्रयमेव सङ्गमयति-पूर्वदृष्टस्येति । तत्प्रामाण्यसिद्धौ च पूर्वदृष्टाप्रच्युतौ वर्तमानदर्शनस्य प्रामाण्यसिद्धौ सत्यां पुनः। पूर्वदृष्टाऽप्रच्युतिसिद्धितो न वर्तमानदृशः प्रामाण्यसिद्धिः किन्तु परिस्फुटप्रतिभासत एवेति नोक्तान्योन्याश्रय इत्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-कामेति-कामाभिभूतो जनो