________________
७०]
[ तत्त्वबोधिनीविवृतिविभूषितम् 'अयम्' इति च भिन्न भिन्नार्थं च प्रतिभाति, एकार्थत्वे पर्यायताप्रसक्तः, तत्तेदन्ताख्याखण्डोपाधिरूपशक्यतावच्छेदकमेदाद् द्रव्यघटपदयोरिव न पर्यायत्वमिति चेत् ? न-अन्यूनानतिरिक्ततयैकार्थ
कत्वम् , ततश्च दशनैकत्वसिद्धिः स्यादित्यत आह—एकार्थत्व इति-'सः' इति 'अयम्' इत्यभिधानयोरेकाभिधेयकत्वे इत्यर्थः। पर्यायतापत्तेरितिएकार्थानां घट-कलश-कुम्भादीनां यथा पर्यायत्वं तदाऽनयोरप्येकार्थत्वे पर्यायत्वं स्यात् , तथा च घटरूपार्थप्रतिपत्तये यदा घटशब्दः प्रयुज्यते न तदानीं तदर्थाधिगतये तत्सन्निधौ कुम्भादि' शब्दाः प्रयुज्यन्ते, एवं 'सः' इत्यस्य प्रयोगे तत्सन्निधौ ‘अयम्' इत्यस्य प्रयोगो न भवेदिति 'सोऽयम्' इत्यभिधानलक्षणस्य व्यवहारस्यानुपपत्तिरित्याशयः । एकप्रवृत्तिनिमित्तकत्वे सत्येकार्थवृत्तित्वं पदानां पर्यायत्वम् , तच्च 'सोऽयम्' इति शब्दयो स्ति, 'सः' इत्यस्य तत्तारूपप्रवृत्तिनिमित्तकत्वम् , 'अयम्' इत्यस्य चेदन्तारूपप्रवृत्तिनिमित्तकत्वमिति शक्यतावच्छेदकभेदाद् द्रव्यपद-घटपदयोघंटात्मकद्रव्यलक्षणैकार्थकत्वेऽपि द्रव्यत्व-घटत्वरूपशक्यतावच्छेकभेदाद् यथा न पर्यायत्वं तथा न पर्यायत्वमिति शङ्कतेतत्तेदन्ताख्येति । अन्यूनाऽनतिरिक्तार्थवृत्तित्वमेव पर्यायत्वम् , द्रव्यपदमधिकार्थवृत्तिकं घटपदात्, घटपदं न्यूनार्थवृत्तिकं द्रव्यपदादित्यन्यूनानतिरिक्तार्थवृत्तित्वं द्रव्यपद-घटपदयोरिति न तयोः पर्यायत्वम् , 'सः' इति 'अयम्' इति पदयोश्च प्रवृत्तिनिमित्तभेदेऽप्यर्थ एक एवेत्यन्यूनाऽनतिरिक्तार्थवृत्तित्वं तयोरिति पर्यायत्वं प्रसज्यत एवेति समाधत्ते-नेति । यदि चैकशक्यतावच्छेदकत्वे सति एकार्थवृत्तित्वमेव पर्यायत्वं तर्हि कम्बुग्रीवादिमत्पद-घटपदयोरपि पर्यायत्वं न स्यात् कम्वुग्रीवादिमत्पदस्य कम्बुग्रीवादिमत्त्वं सखण्डोपाधिरूपं शक्यतावच्छेदकम् , घटपदस्य च घटत्वं सामान्यं शक्यतावच्छेदकमित्येवं शक्यतावच्छेदकभेदादित्याह