________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[७१ वृत्तित्वेन पर्यायत्वाऽप्रच्यवात् , अन्यथा कम्बुग्रीवादिमद्-घटपदयोरपि पर्यायत्वाऽनानत्तेः, प्रवृत्तिस्तु क्रियारूपत्वात् पूर्वापरभाविनि भिन्नैवेति कुतो व्यवहारकत्वादप्येकत्वम् ? तेन निर्विकल्प कस्य सविकल्पकस्य वा प्रत्यभिज्ञानस्य प्रामाण्याऽसिद्धेर्न प्रत्यक्षविरोधमनुभवन्ति क्षणिकवादिनः।।
यच्च ‘विनाशस्य सहेतुकत्वात् तद्धत्वभावादेव कियत्कालं स्थैर्यम्' इत्युक्तम् , तदप्यसत्-विनाशस्य सहेतुकताया एवाऽसिद्धा, तथा हि-इन्धनादीनामग्निसंयोगावस्थायां त्रितयमुपलभ्यते-तदेवेन्धनादि, कश्चिद् विकारोऽङ्गारादिः तुच्छरूपश्चाऽभावः कल्पनाज्ञानप्रतिभासी, तत्राऽग्न्यादीनां क व्यापार इति वक्तव्यम् , न तावदिन्धनादिजन्मनि, स्वहेतुत एव तेषामुत्पत्तेः, नाप्यङ्गरादौ,
अन्यथेति । प्रवृत्तिर्व्यवहार इति तस्या एकत्वाद् दर्शनस्यैकत्वमिति तृतीयपक्षोऽपि न समीचीन इत्याह-प्रवृत्तिस्त्विति । तथा चोक्तदिशा निर्विकल्पकरूपस्य सविल्पकरूपस्य वा प्रत्यभिज्ञानस्य प्रामाण्याऽसिद्धर्न प्रत्यभिज्ञाप्रत्यक्षप्रमाणबाधः क्षणिकवाद्युपगतक्षणक्षयानुमानस्येत्यनुमानप्रमाणतः सिध्यति क्षणिकत्वमित्युपसंहरतितेनेति । विनाशस्य सहेतुकत्वाद् हेतुविलम्बाद् विनाशविलम्बे यावन्न विनाशस्तावत्कालं प्रतियोगिनः सत्त्वमिति कियत्कालस्थायित्वलक्षणं स्थैर्य भावस्येत्यभिप्रायकं स्थैर्यवादिना यदुक्तं प्रार वचनं तदपि न समीचीनमित्याह-यच्चेति । तद्धत्वभावात् कियत्कालविनाशहेत्वसन्निधेः विनाशस्य सहेतुकत्वासिद्धिमेव भावयति-तथाहीति । तत्र तदानीमुपलभ्यमानत्रितयमध्ये । इन्धनादिजन्मन्यग्न्यादीनां व्यापार इति तावन्न सम्भवतीत्याह-न तावदिति । तेषाम् इन्धनादीनाम् । अङ्गारादिजन्मनि अग्न्यादिव्यापार इत्यस्मा