________________
अनेकान्तव्यवस्थाप्रकरणम् ].
[६९ कथं तदेकत्वं साधयेत् ?, न चोभयदर्शनविषविषयकत्वात् तदर्थैकत्वमेव स्मृत्या साध्यत इत्यभिप्रेतम् , मिथोऽननुप्रविष्टाकारभेदावगाहिन्यास्तस्यास्तदसाधकत्वात्। न च कल्पनाप्येकास्ति, 'सः' इति, 'अयम्' इति च कल्पनाभेदाता अभिधानमपि 'सः' इति,
ननु यत् पूर्वदर्शनं यच्चेदानीन्तनदर्शनं तदुभयविषयविषयिका या स्मृतिस्तया दर्शनद्वयविषयीभूतार्थस्यैकत्वमेव साध्यते, न तु दर्शनस्यैकत्वम् , तावताप्यभिलषितं पूर्वापरैकत्वं स्थैर्यपर्यवसायि सिद्धं भवतीत्याशक्य प्रतिक्षिपति-न चेति । तदर्थैकत्वमेव दर्शनद्वयविषयैकत्वमेव; एवकारेण दर्शनैकत्वसाधनव्यवच्छेदः । भवतु दर्शनद्वयविषयविषयिणी स्मृतिः, परं प्रथमदर्शनविषयं 'सः' इत्याकारेणावगाहते, अपरदर्शनविषयं च 'अयम्' इत्याकारणावगाहते, आकारद्वयं च परस्पराननुप्रविष्टमेव स्मृतिविषय इति परस्पराननुप्रतिष्टाकारभेदावगाहिन्यास्तस्याः स्मृतेर्दर्शनद्वयविषयार्थैकत्वाऽसाधकत्वादिति निषेधहेतुमुपदर्शयति-मिथोऽननुप्रविष्टेति । तस्या स्मृतेः । तदसाधकत्वात् दर्शनद्वयार्थैकत्वासाधकत्वात् । ज्ञानरूपव्यवहारपक्षस्य 'सोऽयम्' इति कल्पनाज्ञानरूपव्यवहारैकत्वाद् दर्शनकत्वमिति तृतीयविकल्पं प्रतिक्षिपति-न च कल्पनाऽप्येकास्तीति । 'सोऽयम्' इत्यत्र 'सः' इत्येका कल्पना, 'अयम्' इति च द्वितीया कल्पनेत्येवं कल्पनाभेदात् कल्पनैकत्वासम्भवादित्याहस इतीति । 'सोऽयम्' इत्यभिधानरूपव्यवहारैकत्वाद् दर्शनस्यैकत्वमिति द्वितीयपक्षं दूषयति-अभिधानमपीति-'सः' इत्येकमभिधानम् 'अयम्' इति द्वितीयाभिधानमित्येवमभिधानं स्वरूपतो भिन्नम् , तथा 'सः' इत्यभिधानं तत्ताविशिष्टार्थकम् 'अयम्' इत्यभिधानमिदन्ताविशिष्टार्थकमिति भिन्नार्थ च प्रतिभातीति स्वरूपतोऽर्थतश्चैकोक्ताभिधानस्यैकत्वाभावान्न ततोऽपि दर्शनैकत्वसिद्धिरित्यर्थः । स्वरूपत एकत्वाभावेऽप्यर्थतो निरुक्ताभिधानद्वयस्यै