________________
૨૭૮
अनेकान्तव्यवस्थाप्रकरणम् । "एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः। धर्मादीनां षोडश स्युः, काले पञ्चदश स्मृताः” ॥ १॥ [ ]
स्वभावलाभादच्युतत्वादस्तिस्वभावः १, पररूपेणाभावान्नास्तिस्वभावः २, निजनिजनानापर्यायेषु तदेवेदं द्रव्यमिति प्रतीतेर्नित्यस्वभावः ३, तस्याप्यनेकपर्यायपरिणामित्वादनित्यस्वभावः ४, स्वभावानामेकाधारत्वादेकस्वभावः ५, एकस्याप्यनेकस्वभावोपलम्भादनेकस्वभावः ६, गुणगुण्यादिसंज्ञादिभेदाद् भेदस्वभावः ७, गुण-गुण्याघेकस्वभावादभेदस्वभावः ८, भाविकाले पररूपाकारभवनाद् भव्यस्वभावः ९, कालत्रयेऽपि पररूपाकाराभवनादभव्यस्वभावः १० । उक्तं चखभावास्तस्येत्याह-बहुप्रदेशं विनेति । एतत्सङ्ग्राहकं पद्यमुपदर्शयति-एकविंशतिभावाः स्युरिति । अस्तित्वाद्यकविंशतिस्वभावानां क्रमेण व्यवस्थामुपदर्शयति-स्वभावलाभादिति-येन यः स्वभावो लब्धस्तस्मिन् स्वभावे व्यवस्थित एव सर्वदा न ततथ्युतो भवतीत्येतावताऽस्तिस्वभाव इत्यर्थः । नास्तिस्वभावसङ्गमनं विधत्ते-पररूपेणेति । नित्यस्वभावं व्यवस्थापयति-निजेति । अनित्यस्वभावं सङ्गमयति-तस्यापीति-द्रव्यस्यापीत्यर्थः । यद्यकस्वभावो वस्तुनो न भवेन्न भवेत् तदानीमनेकस्वभावानामेकाधारत्वम्, न च तदन्तरेणानेकान्तात्मकं वस्त्वित्येकस्वभावोऽभ्युपगन्तव्य इत्येवमेकखभावं व्यवस्थापयति-स्वभावानामिति । योकस्वभावमेव सर्वथा वस्तु भवेदनेकखभावानां तत्रोपलब्धिरेव न स्यादतोऽनेकखभावोपलम्भान्यथानुपपत्त्याऽनेकस्वभावोऽभ्युपगन्तव्य इत्याह-एकस्यापीति । यदि भेदस्वभावो न भवेत् सर्वथाऽभिन्नस्य संज्ञिनो गुण-गुण्यादिसंज्ञाभेदो न स्यादतः संज्ञाभेदान्यथानुपपत्त्या भेदस्वभावोऽभ्युपगन्तव्य इत्याह-गुण-गुण्यादीति । य एव गुणः स एव गुणीत्येवं गुण-गुण्यादीनां य एकखभावः सोऽभेदखभावं विनाऽनुपपन्न इत्यवश्यमभेदस्वभावोऽभ्युपगन्तव्य इत्याह-गुणेति । किञ्चिद् द्रव्यमुत्तरकाले पररूपाकारेण भवति, तदेतत् पररूपेण भवनं भव्यस्वभावमन्तरेण नोपपद्यत इत्यतो भव्यखभावोऽभ्युपगन्तव्य इत्याह-भाविकाले । किञ्चित् कदाचिदपि पररूपाकारेण न भवतीति तदस्य पररूपाकारेणाभवनमभव्यखभावमन्तरेण न स्यादित्यभव्यखभाव आश्रयणीय इत्याह-कालत्रयेऽपीति । उक्तार्थे प्राचां वचनं संवादकतया