________________
तत्त्वबोधिनीविवृतिविभूषितम् २७७ अचेतनस्य भावोऽचेतनत्वम् , अचैतन्यमननुभवनम् ८, मूर्तस्य भावो मूर्तत्वं रूपादिसन्निवेशः ९, अमूर्तस्य भावोऽमूर्तत्वम् , रूपादिरहितत्वम् १० । ज्ञानादयः प्रतीताः । स्वस्य भावाः स्वभावाः, ते चैकविंशतिः, तत्र अस्तिस्वभावः, नास्तिस्वभावः, नित्यस्वभावः, अनित्यस्वभावः, ऐकस्वभावः, अनेकस्वभावः, "भेदस्वभावः, अभेदस्वभावः, भव्यस्वभावः, अभंव्यस्वभावः, परमस्वभाव इति द्रव्याणामेकादश सामान्यस्वभावाः, 'चेतनस्वभावः, अचेतनस्वभावः, मूर्तस्वभावः, अमूर्तस्वभावः, ऐकप्रदेशस्वभावः, अनेकप्रदेशस्वभावः, विभावखभावः, शुद्धस्वभावः, अशुद्धस्वभावः, उपचरितस्वभाव इत्येते द्रव्याणां दश विशेषस्वभावाः, एते जीव-पुद्गलयोरेकविंशतिः, 'चेतनस्वभाव-मूर्तस्वभाव-विभावस्वभावा-ऽशुद्धस्वभावैकप्रदेशस्वभावान् विना धर्मादित्रयस्य षोडश । बहुप्रदेशं विना कालस्य पञ्चदश, श्लोकःननुभवनलक्षणमचेतनत्वं सिद्धमेवेत्याह-अचैतन्यमननुभवनमिति । मूर्तत्वं दर्शयति-मर्तस्येति । मूर्तत्वस्य रूपादिसन्निवेशरूपत्वे तद्विपक्षस्यामूर्तत्वस्य रूपादिरहितत्वरूपताऽसन्दिग्धेत्याह-रूपादिरहितत्वमिति । एतावता अस्तित्वादयो दश सामान्यगुणा निरूपिताः, ज्ञान-दर्शनादयश्च षोडश विशेषगुणाः सुप्रतीता एवेति न तेषां निरूपणस्यात्रेदानीमावश्यकतेत्याह-ज्ञानादयः प्रतीता इति । यथा च गुण-पर्यायरूपतया वस्तुनोऽनेकान्तस्वरूपत्वं तथाऽनेकस्वभावत्वमपि वस्तुनोऽनेकान्तवाद एव घटते न त्वेकान्तवादे इत्यस्यावगतये स्वभावा अपि निरुच्य विवेकेन दर्शयितव्या इत्याशयेनाह-स्वस्येति । ते च खभावाश्च । तत्र द्रव्याणामेकादश सामान्यस्वभावा दश च विशेषस्वभावा मिलित्वैकविंशतिः स्वभावा भवन्ति, क्रमेण तानुपदर्शयति-तत्रेति-एकविंशतिखभावेषु मध्ये इत्यर्थः । सर्वेऽप्येते स्वभावा जीवपुद्गलयोरित्याह-एत इति। उक्तेष्वेकविंशतिखभावेषु चेतनखभावमूर्तस्वभाव-विभावस्वभावा-ऽशुद्धस्वभावैकप्रदेशस्वभावान् पञ्च मुक्त्वा षोडशखभावा धर्माऽधर्माऽऽकाशानामित्याह-चेतनस्वभावेति । परमनिरुद्धसमयः काल एकदेश एवेति तस्यानेकप्रदेशखभावाभावादुक्तषोडशस्वभावतोऽनेकखभावस्य बहिर्भावे सति पञ्चदश