________________
२७६
अनेकान्तव्यवस्थाप्रकरणम् । द्रव्यस्य भावो द्रव्यत्वम्, निजनिजप्रदेशसमूहैरखण्डवृत्त्या स्वभावविभाव-गुण-पर्यायान् द्रवति द्रोष्यति अदुद्रुवदिति द्रव्यम् ३, प्रमेयस्य भावः प्रमेयत्वम् , प्रमाणेन परिच्छेद्यं रूपं प्रमेयम् ४, गुरु-लाघवाभावोऽगुरुलघुत्वम् , सूक्ष्मा अवाग्गोचराः प्रतिक्षणं विवर्तमाना आगमप्रामाण्यादभ्युपगम्या अगुरुलघुगुणाः ५ ॥
"सूक्ष्मं जिनोदितं तत्त्वं, हेतुभिर्नैव हन्यते ।
आज्ञासिद्धं हि तद् ग्राह्यं, नान्यथावादिनो जिनाः ॥ १॥[ ] प्रदेशस्य भावः प्रदेशत्वम् , अविभागिपुद्गलपरमाणुनाऽवष्टब्धत्वम् ६, चेतनस्य भावश्चेतनत्वम् , चैतन्यमनुभवनम् ७, श्लोकः
चैतन्यमनुभूतिः स्यात् , सा क्रियारूपमेव च । . क्रिया मनोवचः-कायैरन्विता वर्तते ध्रुवम् ॥१॥” [ ]
गुण-पर्यायानुगामिस्वरूपत्वं द्रव्यत्वमिति द्रव्यपदव्युत्पत्त्युपदर्शनमुखेनावेदयति-निजनिजेति-यस्य द्रव्यस्य यावन्तः प्रदेशास्तावद्भिः प्रदेशैरित्यर्थः, अस्य 'द्रवति' इत्यादावन्वयः । अखण्डवृत्त्या अविच्छिन्नस्वरूपेण । स्वभावः यद्रूपं कदापि खावस्थानसमये परित्यक्तं न भवति तद्रूपं स्वभाव उच्यते, यद् विच्छिद्यतेऽपूर्वमुद्भवति तद् विभाव इत्युच्यते । प्रमेयत्वं निर्वक्ति-प्रमेयस्येति । अगुरुलघुत्वं समयैकप्रमाणकमावेदयति-गुरु-लाघवाभावः यन्न गुरु नापि लघु एवंरूपत्वमगुरुलघुत्वम् । एतन्न प्रत्यक्षादिप्रमाणपरिच्छेद्यं किन्त्वागमप्रमाणावसेयमित्याह-सूक्ष्मा इति । एवंवरूपागुरुलघुभावे प्राचां वचनं संवादकतयोपदर्शयति-सूक्ष्ममिति । प्रदेशत्वं निर्वक्ति-प्रदेशस्येति-अविभागी यस्यावयवाभावात् खण्डद्वयभवनलक्षणो विभागो न सम्भवत्येवैतादृशो यः पुद्गलपरमाणुस्तेनावष्टब्धत्वमित्यर्थः । चेतनत्वं दर्शयति-चेतनस्येति-चेतनत्वमेव चैतन्यम् , तदेव चानुभवनम् , तत्रापि वृद्धवचनसंवादमाह-चैतन्यमिति । सा अनुभूतिः। अनुभूतेः क्रियावाभाव्यादेव मनोवचः-कायैः करणस्वरूपैरन्वितत्वमावश्यकमित्याह-क्रियेति । अचेतनत्वं निरूपयतिअचेतनस्येति । चेतनत्वस्य विपक्षभूतमचेतनत्वमिति चेतनत्वस्यानुभवनलक्षणत्वेऽ