________________
तत्त्वबोधिनीविवृतिविभूषितम् २७५ गैतिहेतुत्वैस्थितिहेतुत्वा-ऽवाहनाहेतुत्व-वर्तनाहेतुत्व-चेतनत्वा-ऽचेतनत्व-मूतत्वाऽर्भूर्तत्वलक्षणाः षोडश विशेषगुणाः,प्रत्येकं जीव-पुद्गलयोः षट् षट्, इतरेषां च प्रत्येकं त्रयस्त्रयो गुणा, अन्तस्थाश्चत्वारः स्वजात्यपेक्षया सामान्यगुणा, विजात्यपेक्षया विशेषगुणाः, तत्रास्तीत्येतस्य भावोऽस्तित्वं सद्रूपत्वम् १, वस्तुनो भावो वस्तुत्वं सामान्यविशेषरूपत्वम् २,
मष्टावष्टौ सर्वेषां द्रव्याणां भवन्तीत्याह-प्रत्येकमिति-तत्रास्तित्व-प्रवेशत्वान्ताः षट् द्रव्यमात्रे, चेतनत्वममूर्तत्वं चेति द्वयं जीवे, अचेतनत्वं मूर्तत्वं चेति द्वयं पुद्गले धर्माऽधर्मा-ऽऽकाश-कालेषु अचेतनममूर्तत्वं चेति द्वयमित्येवमष्टसामान्यगुणसद्भावः प्रत्येकं द्रव्यमाने ज्ञेयः । षोडश विशेषगुणानुपदर्शयति-ज्ञानेति । प्रत्येकमिति-उक्तेषु षोडशविशेषगुणेषु ज्ञान-दर्शन-सुख-वीर्य-चेतनत्वा-ऽमूर्तत्वलक्षणाः षड् विशेषगुणा जीवस्य, स्पर्श-रस-गन्ध-वर्णा-ऽचेतनत्व-मूर्तत्वलक्षणाः षड् विशेषगुणाः पुद्गलस्य, गतिहेतुत्वाऽचेतनत्वा-ऽमूर्तत्वलक्षणास्त्रयो विशेषगुणा धर्मास्तिकायस्य, स्थितिहेतुत्वा-ऽचेतनत्वा-ऽमूर्तत्वलक्षणास्त्रयो विशेषगुणा अधर्मास्तिकायस्य, अवगाहनाहेतुत्वा-ऽचेतनत्वा-ऽमूर्तत्वलक्षणास्त्रयो विशेषगुणा आकाशस्य, वर्तनाहेतुत्वा-ऽचेतनत्वा-ऽमूर्तत्वलक्षणास्त्रयो विशेषगुणाः कालस्येत्यर्थः । चेतनत्वा-ऽचेतनत्व-मूर्तत्वा-ऽमूर्तत्वलक्षणाश्चत्वारो गुणाः सामान्यगुणेषु विशेषगुणेषु चाधीताः, तत्र यदि सामान्यगुणाः कथं विशेषगुणास्ते, विशेषगुणाश्चेत् कथं सामान्यगुणाः, सामान्यगुणत्व-विशेषगुणत्वयोविरोधाभावे सर्वेषां सामान्य-विशेषगुणत्वे स्यातामित्यत आह-अन्तस्थाश्चत्वार इति-सामान्यगुणगणनायां विशेषगुणगणनायां च अन्ते पठितत्वाद् अन्तस्था इति, चेतनेषु सर्वेषु जीवेष्वविशेषेण चेतनत्वम् , अचेतनेषु धर्मास्तिकायादिषु सर्वेष्वचेतनत्वम् , मूर्तेष्वशेषपुद्गलेषु मूर्तत्वम् , धर्मास्तिकायादिष्वमूर्तेष्वखिलेष्वमूर्तत्वं च वर्तन्त इति चेतनत्वादिना सर्वे चेतनादयः सजातीया इति खजात्यपेक्षयैतेषां चतुर्णा सामान्यगुणत्वम् , चेतनादीनां विजातीया अचेतनादयस्तेषु चेतनत्वादीनामवृत्तेस्तदपेक्षया विशेषगुणत्वमित्येवमन्तस्थाश्चत्वारः सामान्यगुणा विशेषगुणाश्च भवन्तीत्यर्थः। अस्तित्वादीनां स्वप्रतिपादकशब्दव्युत्पत्त्युपदर्शनद्वाराऽसाधारणस्वरूपमुपदर्शयतितत्रेति-अस्तित्वादिगुणेषु मध्ये इत्यर्थः । सामान्य-विशेषात्मकं वस्तु, ततस्तद्भावः सामान्य-विशेषरूपत्वमेवेत्याह-सामान्य-विशेषरूपत्वमिति । स्वभाव-विभाव