________________
२७९
तत्त्वबोधिनीविवृतिविभूषितम् २७९ "अण्णोण्णं पविसंता, दिता ओगासमण्णमण्णस्स। मेलन्ता वि य णिचं, सगसगभावं ण विजहंति ॥ १॥”[ ]
पारिणामिकभावप्रधानत्वेन परमस्वभावः ११, चेतनस्वभावादिचतुष्टयं ४ गुणपाठमध्य एव व्याख्यातम् १५, एकप्रदेशस्वभावोऽखण्डवृत्त्याऽवस्थितिः १६, अनेकप्रदेशस्वभावः सखण्डवृत्त्याऽवस्थानम १७, स्वभावादन्यथाभवनं विभावः १८, शुद्धस्वभावोऽन्यामिश्रणेन केवलस्वभावः १९, अशुद्धस्तद्विपरीतः २०, स्वभावस्याप्यन्यत्रोपचारादुपचरितस्वभावः २१, स द्वेधा कर्मज-स्वाभाविकभेदात् , आद्यो यथा--जीवस्य मूर्तत्वमचेतनत्वं च, द्वितीयो यथा-सिद्धादर्शयति-उक्तं चेति । अण्णोण्णं इति-"अन्योऽन्यं प्रविशन्तो ददतोऽवकाशमन्योन्यस्य । मीलन्तोऽपि च नित्यं स्वस्वभावं न विजहति" ॥ इति संस्कृतम् । परखभावं व्यवस्थापयति-पारिणामिकेति-पारिणामिकभावः प्रधानो यस्य स पारिणामिकभावप्रधानस्तत्त्वेनेत्यर्थः, चेतनत्वा-ऽचेतनत्व-मूर्तत्वा-ऽमूर्तत्वचतुष्टयं सामान्यगुणतया विशेषगुणतया च प्रागुपदिष्टं निरूपितं चेति पुनस्तन्निरूपणं पौनरुक्त्यदोषावहत्वादुपेक्षणीयमेवेत्याह-चेतनस्वभावेति । अनेकप्रदेशस्य सतो जीवपुद्गलादेरेक एव प्रदेशो यस्य स एकप्रदेश इत्येवं स्वभावो न सम्भवति, किन्तु सतामपि प्रदेशानां यावत् पृथग्भावो न भवति तावदखण्डवृत्त्या-अविच्छिन्नस्वरूपेण याऽवस्थितिः सैवैकदेशस्वभाव इत्याह-एकप्रदेशेति एतद्विपरीतोऽनेकदेशस्वभाव इत्याह-अनेकेति। यस्य यः स्वभावस्तत्वभावं परित्यज्य स्वभावान्तरेण यद् भवनं तद् विभावखभाव इत्याह-स्वभावेति। शुद्धस्वभावं निरूपयति-शुद्धस्वभाव इति अन्यमिश्रितः स्वस्वभावोऽशुद्धस्वभाव इत्याह-अशुद्ध इति । तद्विपरीतः शुद्धस्वभावविपरीतः अन्यसंबद्धो यः स्वभावः स चेदन्यत्रारोपित उपचरितस्वभाव इत्याह-स्वभावस्यापीति । कर्मज-स्वाभाविकभेदेनोपचरितखभावस्य द्वैविध्यमुपदर्शयति-स द्वधेति-उपचरितस्वभावो द्विप्रकार इत्यर्थः, आद्यः कर्मज उपचरितस्वभावः, मूर्तत्वं पौद्गलिकस्य कार्मणशरीरस्य स्वभावस्तत्सम्बन्धाजीवस्योपचरितः स भवतीति कर्मज उच्यते । द्वितीयः स्वाभाविक उपचरितखभावः, सिद्धस्य ज्ञत्वं स्वभावः, ततश्चास्य परज्ञत्वं परदर्शकत्वं च भवतीति स्वभावप्रभवत्वात् खाभाविक