________________
२८०
अनेकान्तव्यवस्थाप्रकरणम् । त्मनां परज्ञता परदर्शकत्वं च, एवमितरेषां द्रव्याणामुपचारो यथासम्भवं ज्ञेयः । एते स्वभावा अनेकान्तवाद एव घटन्ते, एकान्तस्य वक्तुमशक्यत्वात् , तथाहि सर्वथैकान्तेन सद्रूपस्य न नियतार्थव्यवस्था, सङ्करादिदोषप्रसङ्गात् १, एकान्तेनासद्रूपस्याऽपि न नियतार्थव्यवस्था, सकलशून्यतापत्तेः २, सर्वथा नित्यत्वेऽप्येकरूपस्य नानाविधार्थ
इत्युच्यते, यद्यपि परज्ञत्वं परदर्शकत्वं च संसारिणोऽपि तथापि यदयं किञ्चिदेव परं जानाति किञ्चिदेव परं पश्यति च, तत्र चावरणकर्म एव प्रभवतीति कर्मजत्वं तस्य, सिद्धे तु कर्ममात्रस्यैवाभावात् स्वाभाविकत्वं तस्य, एवमप्युपचरितोऽसौ ज्ञत्वमात्रमस्य स्वभावो द्रष्टुत्वं च, तत्र परप्रवेशे उपचारः स्यादेवेति । आत्मद्रव्ये दर्शित उपचरित. स्वभावो द्रव्यान्तरेष्वपि यथासम्भवमनुसन्धेय इत्याह-एवमिति यदर्थमेते स्वभावा व्यवस्थापितास्तन्निगमयति-पत इति-अनन्तरोपवर्णिता इत्यर्थः । एकान्तस्य वक्तुमशक्यत्वमेव भावयति-तथाहीति । न नियतार्थव्यवस्थेति-घटो ययेकान्तेन सद्रूप एव स्यात् तदा स्वद्रव्य-क्षेत्र-काल-भावैरिव परद्रव्य-क्षेत्र-काल-भावैरपि सन्नेव स्यात् , एवं च घटत्वेन सत्त्वाद् य एव घटः स एवं पटत्वेन सत्त्वात् पटो मठत्वादिना सत्त्वान्मठादिरपि स्यात् , एवं च 'अयं घटः, अयं तु पटः' इत्यादिरूपा प्रतिनियतार्थव्यवस्था न स्यादित्यर्थः । घटत्वेन घटस्येव पटस्यापि सत्त्वात् पटत्वेन पटस्येव घटस्यापि सत्त्वाद् घटे घटत्वमिव पटत्वमपि स्यात् । पटे पटत्वमिव घटत्वमपि स्यात् । तयोः साङ्कयं । प्रसज्यतेत्याह-सङ्करादिदोषप्रसङ्गादिति-आदि. पदाद् व्यतिकर-संशयादेरुपग्रहः । यथा च पररूपादिभिर्घटोऽसंस्तथा निजरूपादिभिरप्यसन्नित्येवमेकान्तेनासत्त्वाभ्युपगमेऽपि नियतार्थव्यवस्थाऽभाव एव स्यादित्याहएकान्तेनेति । कथं नियतार्थव्यवस्थाऽभाव इत्यपेक्षायामाह-सकलशून्यतापत्तेरिति-सर्वेणापि रूपेण प्रत्येकं सर्वेषामपि वस्तूनामसत्त्वे न नाम जगति किञ्चिद् वस्त्विति शून्यमेव जगत् स्यादिति कस्य नियततेत्यर्थः । सर्वथा नित्यतयाऽभ्युपगतं वस्तु यद्येकार्थक्रियाकारिखभावं तदा तदर्थक्रियामेव सर्वदा विदध्यात्, नान्यर्थक्रियाम् , तस्यान्यार्थक्रियाकारित्वस्वभावोऽपि यद्यपरोऽभ्युपेयेत तदा स्वभाव भेदाद् भेद इति नैकं नित्यमित्येवं सर्वथैकरूपस्यैकान्तनित्यस्य नानाविधार्थक्रियाकारित्वाभावस्ततश्चार्थक्रियाकारित्वलक्षणसत्त्वस्याभावे तन्नियतस्य द्रव्यस्याप्यभाव