________________
तत्त्वबोधिनीविवृतिविभूषितम्
]
क्रियाकारित्वाभावस्तदभावे द्रव्यस्याप्यभावः ३, सर्वथाऽनित्यपक्षेऽपि निरन्वयत्वादर्थक्रियाकारित्वाभावस्तदभावे द्रव्यस्याप्यभावः ४, एकान्तेनैकस्वरूपत्वे विशेषाभावस्तदभावे सामान्यस्याप्यभावः ५ । यतः" निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वाच्च, विशेषास्तद्वदेव हि ॥ १ ॥" [ एकान्तेनानेकस्वभावपक्षेऽपि द्रव्याभावो निराधारत्वात् ६, भेदैकान्तपक्षेऽपि विशेषस्वभावानां निराधारत्वादर्थक्रियाकारित्वाभावस्तदभावे द्रव्यस्याप्यभावः ७, अभेदैकान्तपक्षेऽपि सर्वेषामेकत्वम्, तथा च इत्याह- सर्वथा नित्यत्वेऽपीति । तदभावे नानाविधार्थक्रियाकारित्वाभावे वस्तुनः सर्वथाऽनित्यत्वे यदा कारणं तदा न कार्यम्, यदा कार्यं तदा न कारणमिति कार्यकालेऽसतोऽपि पूर्वक्षणवृत्तित्वमात्रेण कारणत्वे घटपूर्वक्षणवृत्तित्वं यथा कपाले तथा तत्समानकालीनानामन्येषामपीति तेषामपि घटकारणत्वं प्रसज्येतेति न निरन्वयविनाशिनः सर्वथाऽनित्यस्यार्थक्रियाकारित्वलक्षणं सत्त्वम्, तदभावाच्च न द्रव्यमपि तदित्याह-सर्वथाऽनित्यत्वपक्षेऽपीति । तदभावे अर्थक्रियाकारित्वाभावे । यदि वस्त्वेकान्तेनैकस्वरूपं स्यान्निर्विशेषं स्यात् एवं च निर्विशेषं न सामान्यमिति सामान्यरूपमपि तन्न भवेत्, सामान्यविशेषोभयानात्मकं च शशशृङ्गकल्पमेवेति नैकान्तेनैकरूपमपि वस्त्वित्याह-एकान्तैकस्वरूपत्व इति । तदभावे विशेषाभावे। विशेषाभावे सामान्यस्याप्यभाव इत्यत्र हेतुं पद्येनोपदर्शयति- -यत इति । तद्वदेव खरविषाणवदेव । अनेकं हि एकाश्रितमवतिष्ठते, एकाभावे च निराश्रितमनेकं न स्यादेवेत्येकान्तेन । नैकपक्षोऽपि न युक्त इत्याह-एकान्तेनेति । एकान्तमेदस्वभावस्याप्ययुक्तत्वमुपदर्शयति - भेदैकान्तपक्षेऽपीति । तदभावे अर्थक्रियाकारित्वाभावे । यदि सर्वेषामेकान्तेनाभेद एव स्यात् कार्य-कारणयोरप्यभेदात् कार्यकारणस्वभाव एव न स्यात्, नहि स्वमेव स्वस्य कारणं भवति, पूर्वापरभावे सति कार्यकारणभावो भवति, नहि स्वमेव स्वस्य पूर्वमपरं च सम्भवति, एवं यदेकस्य कार्यं तदपरस्यापि स्यात् तयोरभेदादिति प्रतिनियतार्थक्रियाकारित्वमेकान्ताभेदपक्षे न भवेत्, प्रतिनियतार्थक्रियाकारित्वाभावे तल्लक्षणसत्त्वाऽभवाद् द्रव्यमपि तन्न स्यादित्येकान्तामेदवादोऽपि न युक्त इत्याह- अभेदै कान्तपक्षेऽपीति । तथा च
२८१