________________
अनेकान्तव्यवस्थाप्रकरणम् ।
प्रतिनियतार्थक्रियाकारित्वाभावस्तदभावे द्रव्यस्याप्यभावः ८, एकान्तेन भव्यस्वभावाभ्युपगमे द्रव्यस्य द्रव्यान्तरत्वप्रसङ्गात् सङ्कर-व्यतिकर-विरोध-वैयधिकरण्या-ऽनवस्था-संशयाप्रतिपत्त्यभावदोषानुषङ्गः ९, सर्वथाऽभव्यस्वभावाभ्युपगमेऽपि शून्यताप्रसङ्गः १०, स्वभावैकान्ते
सर्वेषामेकत्वे च । तदभावे प्रतिनियतार्थक्रियाकारित्वाभावे । भाविकाले पररूपाकारभवनलक्षणस्य भव्यखभावस्यापि सर्वथाऽभ्युपगमे द्रव्यं द्रव्यान्तराकारेण परिणमेदेव। सर्वथेति द्रव्यान्तरत्वं स्यादित्येकस्य द्रव्यस्य द्रव्यान्तरेण सङ्कीर्णता स्यात् एवं तद् द्रव्यं द्रव्यान्तरम् , द्रव्यान्तरं च तद् द्रव्यमित्येवं व्यतिकरः, तद् द्रव्यस्य द्रव्यान्तरत्वे विरोधोऽपि तद् द्रव्यं यद्देशकालाद्यवस्थितमुपलभ्यते ततोऽन्यदेशकालाद्यवस्थितं स्यादिति वैयधिकरण्यं स्याद् , एवं तद् द्रव्यस्य पररूपाकारभवनस्वभावो यथा तथा द्रव्यान्तरं यजातं तस्यापि स स्वभाव इति ततोऽपि द्रव्यान्तरमेवं, तस्यापि स स्वभाव इत्येवमनवस्थानमापद्येत एवं तद्रव्यस्य द्रव्यान्तरभवनमिदं द्रव्यान्तरस्य वेति संशयोऽपि स्यात् , इत्थं भव्यस्वभावे प्रतिनियतस्वभावपरावर्तनसंभावनयाऽप्रतिपत्तिरासज्यते, न च युक्त्यपेतमीदृगू वस्तु सम्भवतीत्यभावस्तस्य स्यादित्येवमष्टविधदोषग्रस्तत्वात् सर्वथा भव्यस्वभावोऽपि न युक्त इत्याह-एकान्तेन भव्यस्वभावाभ्युपगम इति। कालत्रयेऽपि पररूपाकाराभवनस्याभव्यस्वभावस्य सर्वथाऽभ्युपगमे न किञ्चिद्रूपेण परिणमेदित्यर्थक्रियाकारित्वलक्षणसत्त्वाभावाच्छून्यत्वमेव स्यादिति न सर्वथाऽभव्यखभावोऽपीत्याह-सर्वथाऽभव्यस्वभावाभ्युपगमेऽपीति । वस्तुत आत्मनोऽनावृतज्ञानस्वरूप एव स्वभावः, स च सर्वथा चेत् ? उत्तरकाल इव पूर्वकालेऽप्यना. वृतज्ञानस्वरूप एवेति संसारस्तस्य न स्यादेवेति स्वभावैकान्तोऽपि न युक्त इत्याहस्वभावैकान्त इति । मोक्षदशायामष्टविधकर्मविनिर्मुक्तस्वभावो य आत्मा तस्य तथाविधस्वभावादन्यथाभवनं न भवति, विभावैकान्ते तु तदानीमपि स्वभावादन्यथाभवनलक्षणो विभावः स्यादिति न मोक्षस्तस्य स्यादिति विभावैकान्तोऽपि न कान्त इत्याह-विभावैकान्त इति । सर्वथा चैतन्यस्वभाव एव यद्यात्मा स्यात् सर्वेषामात्मनां सर्वप्रकारेण चैतन्यमेव भवेत् , न केनचिदंशेनाज्ञानमपीति शुद्धचैतन्यावाप्तिः सर्वजीवानामविशिष्टत्येकस्य किञ्चिदशेनाज्ञानमन्यस्य विशिष्टं ज्ञानम् , एको विशिष्टज्ञानावाप्तितो देवदेवत्वं गतोऽन्यस्तत्स्वरूपावाप्स्याकाङ्क्षया तत्स्वरूपध्यानाभि