________________
तत्त्वबोधिनीविवृतिविभूषितम् संसाराभावः, विभावकान्ते मोक्षाभावः ११, सर्वथा चैतन्यस्वभावाभ्युपगमे सर्वेषामात्मनां शुद्धज्ञानचैतन्यावाप्तिप्रसङ्गेन ध्यानध्येयज्ञानज्ञेय-गुरुशिष्याद्यभावः १२, अचैतन्यैकान्तेऽपि सकलचैतन्योच्छेदाजडत्वापत्तिः १३, एकान्तेन मूर्तस्वभावाभ्युपगमे आत्मनो न मोक्षावाप्तिः १४, अमूर्तेकान्तेऽपि संसारविलोपापत्तिः १५, एकप्रदेशस्यैकान्तेनाखण्डपरिपूर्णस्यात्मनोऽनेककार्यकारित्वहानिः १६, सर्वथाऽनेकप्रदेशत्वेऽपि तस्य नार्थक्रियाकारित्वम् , स्वस्वभावशून्यताप्रसङ्गात् निविष्टचित्त इत्यादिवैलक्षण्याभावाद् ध्यान-ध्येयाद्यभावः प्रसज्यत इति सर्वथा चैतन्यखभावोऽपि नाभ्युपगमार्क इत्याह-सर्वथा चैतन्यस्वभावाभ्युपगम इति । अचैतन्यैकान्ते तु न कुत्रापि चैतन्यमिति जडमयमेव जगत् स्यादिति तस्याभ्युपगमो न श्रेयानित्याह-अचैतन्यैकान्तेऽपीति। सर्वथा मूर्तस्वभावाभ्युपगमे कार्मणशरीरेण सहान्योऽन्यप्रदेशाभिव्याप्तिनिबन्धनं मूर्तत्वं यदात्मनस्तदेव सर्वदेति मोक्षवाप्तिस्तस्य कदापि न स्यादिति सर्वथा मूर्तस्वभावोऽप्यनभ्युपगमार्ह एवेत्याह-एकान्तेन मूर्तस्वभावाभ्युपगम इति । यदि सर्वथाऽमूर्तस्वभाव एवात्मा स्यान्न कर्मणा लिप्येत; कार्मणशरीरेण सहात्यन्तिकसंश्लेषतोऽभेदाध्यासप्रयुक्ततत्पोषकपदार्थे रागादितो विहिता-ऽविहितक्रियाऽनुष्ठानादिप्रभवापूर्वपुण्य-पापागमजनितस्वर्ग-नरकादिभवभ्रमणलक्षणसंसारो न भवेदिति नामूतैकान्तस्वभावोऽपि सङ्गतिमेतीत्याह-अमूर्तेकान्तेऽपीति। अखण्डवृत्त्याऽवस्थितिलक्षणैकप्रदेशस्वभावस्य सर्वथा स्वीकारे आत्मनस्तथा स्वभावस्यानेककार्यकारित्वमेव न स्यादिति नैकान्तप्रदेशस्वभावाभ्युपगमोऽपि युक्त इत्याह--एकप्रदेशस्येति । अनेककार्यकरणे तत्तत्कार्यकारित्वात्मकानेकधर्मात्मकानेकभागसंप्राप्तितोऽखण्डपरिपूर्णस्वभावत्वमात्मनो न स्यादित्यभिसन्धिः । सखण्डवृत्त्याऽवस्थानलक्षणस्यानेकप्रदेशस्वभावस्य सर्वथोपगमे नैकाखण्डस्वरूप आत्मा स्यात् तथास्वरूपश्चात्मोपेयते, तस्यैवाभावे कस्यार्थक्रियाकारित्वं तदभावाद् द्रव्यमपि नासौ भवेदिति न सर्वथाऽनेकप्रदेशस्वभावोऽपीत्याह-सर्वथाऽनेकप्रदेशत्वेऽपीति । तस्य आत्मनः । स्वखभावे व्यवस्थित एव भावोऽर्थक्रियाकारी भवति, सर्वथाऽनेकप्रदेशतायां चात्मनोऽखण्डैकव्यक्त्यात्मतालक्षणखखभावप्रच्युत्या नार्थक्रियाकारित्वमित्याह-स्वस्वभावहानिप्रसङ्गादिति । कर्ममलकलङ्कावलेपाभावतः