________________
२०.]
[ तत्त्वबोधिनीविवृतिविभूषितम् क्रम-योगपद्याभ्यां सामर्थ्य लक्षणं सत्यं व्याप्त क्रमा-ऽक्रमनिवृत्ती च नित्यात् सत्त्वं निवर्तमानं क्षणिकेष्वेवावतिष्ठत इत्यपि वक युक्तम्, क्षणिकत्वे क्रमा-ऽक्रमप्रतिपत्तेरेवासम्भवात् , पूर्वोत्तरकालत्वात् , तत्कालस्यानपेक्षणे तदानीमेव भवति नान्यदेति न स्यात् ।
' अर्थक्रियाकारित्वलक्षणसत्त्वव्यापकक्रम-योगपद्यनिवृत्त्या नित्यानिवर्तमानमर्थक्रियाकारित्वलक्षणं सत्त्वं क्षणिकेष्वेवावतिष्ठत इत्यतो भावानां क्षणिकत्वसिद्धिरिति बौद्धाकृतमाशङ्कय प्रतिक्षिपति-न चेति-अस्य 'युक्तम्' इत्यनेनान्वयः । क्रम-योगपद्याभ्यां क्रमकारित्व युगपत्कारित्वाभ्याम् , क्रमकारित्वे युगपत्कारित्वं न भवेत् , युगपत्कारित्वे क्रमकारित्वं न भवेदित्यनयो!भयत्वेन रूपेणाऽर्थक्रियाकारित्वलक्षणसत्त्वव्यापकत्वम्, किन्तु क्रमकारित्व-युगपत्कारित्वान्यतरत्वेन रूपेणेति बोध्यम् । सामार्थ्यलक्षणं अर्थक्रियाकारित्वरूपम् । क्रमा-ऽक्रमनिवृत्ताविति-नित्यो हि भावः क्रमेणार्थक्रियां कुर्वीत ? अक्रमेण वा ? न तावदाद्यः-यत्क्षणे एकं कार्य करोति तत्क्षणे तस्यान्यकार्य प्रति सामर्थ्य समर्थस्य क्षेपायोगात् तदानीमेव कार्यान्तरमपि कुर्यात् , तत्क्षणे कार्यान्तरं प्रति सामर्थ्याभावे कार्यान्तरं कदापि न विदध्यात् , यत्क्षणे यत् कार्य करोति तत् कार्य प्रति सामर्थ्यमित्येवमुपगमे च सामर्थ्यतद्वतोरभेदाद् विभिन्नकालीनविभिन्नकार्यकरणसामर्थ्यभेदतो भावानामपि भेद एवेति न नित्यत्वमिति न नित्यस्य क्रमेणाऽर्थक्रियाकारित्वम् ; नापि द्वितीयः-यावन्ति यस्य कार्याणि तेन तावतां कार्याणां युगपदेव विधाने एकक्षण एव सकलकार्यकारित्वस्वभावविश्रान्तद्वितीयक्षणे करणीयाभावादर्थक्रियाकारित्वलक्षणसत्वस्याऽभावतोऽभाव एव भावानामिति नित्यत्वहानिरित्येवं नित्यात् क्रमाऽक्रमनिवृत्तावित्यर्थः। अयुक्तत्वे हेतुमाह-क्षणिकत्व इति-यदा च क्रमाऽक्रमप्रतिपत्तिरेव न सम्भवति तदा क्षणिके क्रमाऽक्रमा