________________
तत्त्वबोधिनीविवृतिविभूषितम् । "एवं जहं सहत्थो, संतो भूओ तह तयन्नहाऽभूओ। तेणेवंभूयणओ, सद्दत्थपरो विसेसेणं ॥",
[विशेषावश्यकभाष्यगाथा-२२५१] एवम् यथा 'घट चेष्टायाम्' इत्यादिरूपेण शब्दार्थो व्यवस्थितः, तह त्ति-तथैव यो वर्तते घटादिकोऽर्थः स एव सन् , भूतः-विद्यमानः, अथ यस्तु, अन्यथा-शब्दार्थोल्लङ्घनेन वर्तते स तत्त्वतो घटाद्यर्थोऽपि न भवति, किन्तु, अभूतः-अविद्यमानः, येनैवं मन्यते, तेन-कारणेन, शब्दनय-समभिरूढनयाभ्यां सकाशाद्, एवम्भूतनयो विशेषणशब्दार्थतत्परः । अयं हि योषिन्मस्तकारूढं जलाहरणादितस्यार्थप्रतिपादको गाथार्धभागः, तत्र — एवं यथा शब्दार्थः सन् भूतस्तथा तदन्यथाऽभूतः । तेनैवम्भूतनयः शब्दार्थपरो विशेषेण" ॥ इति संस्कृतम् । विवृणोतिएवमिति । नयनाम्नि ‘एवम्भूत' इत्येवंस्वरूपे जह• इति व्याख्येयम्, 'जह सद्दत्थो संतो' इति तस्य व्याख्यानम्, 'भूओ' इति प्राकृतम्, 'भूत' इति तस्य संस्कृतम् , तदपि व्याख्येयम् , 'तह तयहाऽभूओ' इति तस्य व्याख्यानम् । गाथोत्तरार्द्धं च पर्यवसितैवम्भूतखरूपकथनपरम्, तदेव स्पष्टयति-यथेत्यादिना । यथेत्यस्य "व्यवस्थितः' इत्यनेनान्वयः, 'भूतः' इत्यस्य 'विद्यमानः' इति विवरणम्, एवं च शब्दव्युत्पत्त्या योऽर्थो भवति तथैव विद्यमानोऽर्थ एवम्भूत इत्युच्यते, तदभ्युपगमप्रवणनेयोऽप्येवम्भूतशब्देन प्रतिपाद्यते । यदा चोक्तदिशैवम्भूत एवार्थ एतन्नये भवति तदा योऽर्थो नैवम्भूतनयाभ्युपगंभविषयस्तमुपदर्शयति-अथेति । 'अन्यथा' इत्यस्य 'शब्दार्थोल्लङ्घनेन वर्तते' इत्यर्थक्शनम् , तत्पर्यवसितार्थवचनम् ‘स तत्त्वतो घटाद्यर्थोऽपि न भवति' इति । तर्हि स किं भवतीति पृच्छति-किन्त्विति । उत्तरयति-अभूत इति । एतत्स्वरूपोपवर्णनम्-अविद्यमान इति । एतावता पूर्वार्धार्थो दर्शितः, अथोत्तरार्द्धार्थमाह-'येनैवं मन्यत' इति यत्तदोर्नित्यसम्बन्ध इत्यतः तेन इत्यर्थनिराकासप्रतिपत्तये 'येनैवं मन्यते' इति पूरणम् । विशेषस्तु अन्यतो भवतीत्यतः कस्माद् विशेषेणेत्याकालायाम्-शब्दनयसमभिरूढनयाभ्यां सकाशाद् इति पूरणम् एवम्भूतनयो विशेषणशब्दार्थतत्परः' इति यदुक्तं तस्यैव भावार्थमावेदयति-अयं हीति-एवम्भूतनयो यतः । 'अयम्' इत्यस्य 'मन्यते' इत्यनेनान्वयः ।