________________
૨૨ે
अनेकान्तव्यवस्थाप्रकरणम् ।
क्रियानिमित्तं घटमानमेव [ चेष्टमानमेव ] घटं मन्यते, न तु स्वगृहकोणा दिव्यवस्थितम्, अचेष्टनाद्, इत्येवं विशेषतः शब्दार्थतत्परोऽयमिति भावः ॥
"वंजण - अत्थ - तदुभयं एवंभूओ विसेसेइ” ॥
[ विशेषावश्यके गाथा - २१८५ ]त्ति
निर्युक्तिदलं तद् व्याचष्टे भाष्यकृत्"वंजणमत्थेणत्थं च, वंजणेणोभयं विसेसेइ | जह घडसद्दं चेट्ठावया तहा तं पि तेणेव " ॥
[ विशेषावश्यकभाष्यगाथा - २२५२ ] व्यज्यतेऽर्थोऽनेनेति व्यञ्जनम् वाचकः शब्दो घटादिस्तम् चेष्टावतैतद्वाच्येनाऽर्थेन विशिनष्टि - ' स एव घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति, नान्यम्, इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः,
व्यवस्थितम् इत्यनन्तरं 'घटं मन्यते' इत्यस्यानुकर्षः, तत्र 'मन्यते' इत्यनेन 'न तु' इत्यस्यान्वयः । कथं न मन्यत इत्यपेक्षायामाह - अचेष्टनादिति - चेष्टालक्षणक्रियाकालमात्रवर्तित्वाद् घटपदार्थस्य, स्वगृह कोणादिवृत्तिकाले च व्युत्पत्तिनिमित्तचेष्टनक्रियाऽभावान्न घटपदार्थता । इत्येवम् उक्तप्रकारेण अयम् एवम्भूतनयः ॥
एवम्भूतनयखरूपोपदर्शकं निर्युक्तिवचनं तद्व्याख्यानप्रवणं भाष्यवचनं च क्रमेणोल्लिखति - वंजण० इति - " व्यञ्जनाऽर्थतदुभयमेवम्भूतो विशेषयति” ॥ इति संस्कृतम् | वंजण इति - " व्यञ्जनमर्थेनाऽर्थं च व्यञ्जनेनोभयं विशेषयति यथा घटशब्द चेष्टावतां तथा तमपि तेनेव " ॥ इति संस्कृतम् । निर्युक्तिवचनव्याख्यानरूपं भाष्यवचनं विवृणोति - व्यज्यत इति । तं घटादिशब्दम्, अस्य 'विशिनष्टि' इत्यनेनान्वयः । केन विशिनष्टीत्याकाङ्क्षायामाह - चेष्टावतेति । एतद्वाच्येन घटादिशब्दवाच्येन । तथा च यत् फलितं तदाह- स एवेति योऽर्थं चेष्टावन्तं प्रतिपादयति स शब्द एव घटशब्दो भवतीत्येवमर्थेन शब्दस्य विशेषितत्वम् । नान्यं यः शब्दश्वेष्टावद् भिन्नमर्थं प्रतिपादयति स घटशब्द एव न भवतीति । इत्येवम् अमुना
wwwww