SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ तत्त्वबोधिनीविवृतिविभूषितम् १८७ तथा; अर्थमप्युक्तलक्षणम् अभिहितरूपेण व्यञ्जनेन विशेषयति 'चेष्टाऽपि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा, न तु स्थान- भरणक्रियात्मिका' इत्येवमर्थं शब्देन नैयत्ये स्थापयतीत्यर्थः इत्येवमुभयं विशेषयति, [ शब्दमर्थेन, अर्थं तु शब्देन स्थापयतीत्यर्थः ] एतदेवाह - 'जह घडसद्दं' इत्यादि । इदमत्र हृदयम् - यदा योषिन्मस्तकारूढश्रेष्ठावानर्थो घटशब्देनोच्यते तदा स घटलक्षणोऽर्थः, स च तद्वाचको घटशब्दः, अन्यदा तु वस्त्वन्तरस्येव तचेष्टाऽभावादघटत्वम्, घटध्वनेश्वावा'चकत्वमिति ॥ एतदेव प्रमाणतः समर्थयन्नाह “सद्दवसादभिधेयं, तप्पच्चयओ पईव - कुंभो व्व । संसय-विवज्जएगत्त-सङ्कराइप्पसङ्गओ” ॥ [ विशेषावश्यकभाष्यगाथा - २२५३ ] प्रकारेण, अर्थेन चेष्टावता घटादिशब्दं नैयत्ये व्यवस्थापयत्येवम्भूतनय इत्यर्थः । तथा यथा शब्दमर्थेन नैयत्ये व्यवस्थापयति एवमेव । उक्तलक्षणं चेष्टावत्स्वरूपम् । अभिहितरूपेण अर्थवाचकरूपेण । 'व्यञ्जनेनाऽर्थं विशेषयति' इत्यस्यैव फलितमाह - चेष्टापीति । घटशब्दवाच्यत्वेन का चेष्टा प्रसिद्धेत्यपेक्षायामाह - योषिन्मस्तकारूढस्येति । तर्हि कीदृशी चेष्टा न घटशब्दवाच्येत्याकाङ्क्षायामाह-न त्विति । स्थानेति-घटादेर्यद् गृहकोणादिदेशेऽवस्थानम्, यच्च घृत- दुग्धादिना भरणं पूरणं तदात्मिका क्रिया घटशब्दवाच्यचेष्टा न भवतीत्यर्थः । इत्येवं अमुना प्रकारेण । अर्थं निरुक्तलक्षणं घटाद्यर्थम् । शब्देन घटादिशब्देन इत्येवमुभयं विशेषयति अमुना प्रकारेण शब्दाऽर्थोभयं विशिनष्टि । उक्तभाष्य- वचनाभिप्रायं दर्शयति-इदमिति-‘यदा' इत्यादिनाऽनन्तरमेवाभिधीयमानम् । अत्र एतद्भाष्यवचने हृदयम्-अभिप्रायः । अन्यदा तु घटस्य गृहकोणाद्यवस्थानादिकाले पुनः ॥ उक्तार्थस्य प्रमाणेन समर्थनप्रवणं भाष्यवचनमवतार्थोल्लिखति - एतदेवेति । सद्द० इति। “शब्दवशादभिधेयं तत्प्रत्ययतः प्रदीप कुम्भवत् । संशय- विपर्ययैकत्वसङ्क I www ~mm
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy