________________
अनेकान्तव्यवस्थाप्रकरणम् । हिंसाद्याश्रित्य विषयभेदः सङ्गच्छते, एवम्भूतस्तु क्रियाकालान्यकालस्पर्शिपदार्थप्रतिक्षेपादेव विशिष्यत इति न तत्र युक्त्यन्तरं मृग्यम् , युक्त्यन्तरान्वेषणे वा तस्य माध्यमिकमतपर्यवसानमपि न दुर्लभमिति सङ्केपः ॥
एवम्भूतनयः। पदार्थव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताभ्युपगमपर एवम्भूतः, आह च भाष्यकारः
wwwww
एवम्भूतस्त्विति-अस्य 'विशिष्यते' इत्यनेन सम्बन्धः । क्रियेति-संज्ञाव्युत्पत्तिनिमित्तभूता या क्रिया तत्कालभिन्नकालस्पर्शिनस्तथाभूतकालवर्तिनः पदार्थस्य प्रतिक्षेपाद्-अनभ्युपगमादेव विशिष्यते-नयान्तरतो भिन्नो भवति । इति एतस्मात कारणात् । न नैव । तत्र एवम्भूतस्य नयान्तरतो विशेषे । युक्त्यन्तरं व्युत्पत्तिनिमित्तक्रियाकालमात्रस्पर्शित्वसाधकयुक्तिभिन्नयुक्तिः। मृग्यम् अन्वेषणीयम् , तत् किं युक्त्यन्तरस्याऽभावादेव नान्वेषणम् , उत एकेनैव प्रमाणेनाभिलषिते सिद्ध प्रयोजनान्तराभावादेव तदनन्वेषणमिति चेत् ? अस्त्येव । युक्त्यन्तरम् , शून्यवादपर्यवसानतो यथेष्टाचरणलक्षणफलान्तरमप्यस्ति, किन्तु ग्रन्थगौरवभयान्नेह तदुपन्यास इत्याशयेनाह-युक्त्यन्तरान्वेषणे वेति । तस्य एवम्भूतनयस्य । माध्यमिकमतेति-बौद्धविशेषाकलितशून्यवादमतेत्यर्थः ॥
॥ इति समभिरूढनयनिरूपणव्याख्या ॥
अथ एवम्भूतनयनिरूपणव्याख्याएवम्भूतनयं निरूपयति-पदार्थव्युत्पत्तीति-यद्यपि पदस्य निरुक्तिलक्षणा व्युत्पत्तिर्भवतीति ‘पदव्युत्पत्ति' इति पाठी भवितुमर्हति, तथाऽपि पदस्य याऽर्थप्रतिपादनप्रत्यक्षा व्युत्पत्तिरित्यर्थाश्रयणेन-‘पदार्थव्युत्पत्ति' इति पाठः सङ्गतिमङ्गतीति बोध्यम् , पदार्थव्युत्पत्तिनिमित्तया क्रिया, तस्या यः कालः, तद्व्यापिका-तन्मात्रवर्तिनी; या पदार्थस्य सत्ता-स्वरूपसत्त्वम् , तदभ्युपगमपरः-तत्वीक रप्रवणो नय एवम्भूत इत्यर्थः।
एवम्भूतनयस्य शब्दव्युत्पत्तिनिमित्तक्रियाकालमात्रवृत्तिपदार्थसत्ताऽभ्युपगमपरत्वे भाष्यसंवादमाह-आह चेति । एवं 'एवम्' इति 'भूत' इति चेखेवं पदद्वयम्,